याम्यां पादोदकाच्छ्वेतद्वीपतीर्थं महत्तरम्
श्वेतद्वीपे नरः स्नात्वा ज्ञानकेशवसन्निधौ
तार्क्ष्यकेशवनामाहं तार्क्ष्यतीर्थे नरोत्तमैः
तत्रैव नारदे तीर्थेस्म्यहं नारदकेशवः 4.2.61.
प्रह्लादतीर्थं तत्रैव नाम्ना प्रह्लादकेशवः
तीर्थेंऽबरीषे तत्राहं नाम्नैवादित्यकेशवः
दत्तात्रेयेश्वराद्याम्यामहमादिगदाधरः
तत्रैव भार्गवे तीर्थे भृगुकेशव नामतः
वामनाख्येमहातीर्थे मनःप्रार्थितदे शुभे
नरनारायणे तीर्थे नरनारायणात्मकम्
तीर्थे यज्ञवराहाख्ये यज्ञवाराहसंज्ञकः
विदारनरसिंहोहं काशीविघ्नविदारणः
गोपीगोविंदतीर्थे तु गोपीगोविंदसंज्ञकम्
मुने लक्ष्मीनृसिंहोस्मि तीर्थे तन्नाम्नि पावने 4.2.61.
शेषमाधवनामाहं शेषतीर्थेऽघहारिणि
शंखमाधवतीर्थे च स्नात्वा मां शंखमाधवम्
हयग्रीवे महातीर्थे मां हयग्रीवकेशवम्
भीष्मकेशवनामाहं वृद्धकालेशपश्चिमे
निर्वाणकेशवश्चाहं भक्तनिर्वाणसूचकः
वंद्यस्त्रिलोकसुंदर्या याम्यां यो मां समर्चयेत्
ज्ञानवाप्याः पुरोभागे विद्धि मां ज्ञानमाधवम्
श्वेतमाधवसंज्ञोहं विशालाक्ष्याः समीपतः
उदग्दशाश्वमेधान्मां प्रयागाख्यं च माधवम्
प्रयागगमने पुंसां यत्फलं तपसि श्रुतम् 4.2.61.
गंगायमुनयोः संगे यत्पुण्यं स्नानकारिणाम्
दानानि राहुग्रस्तेर्के ददतां यत्फलं भवेत्
गंगोत्तरवहा यत्र यमुना पूर्ववाहिनी
वपनं तत्र कर्तव्यं पिंडदानं च भावतः
गुणाः प्रजापतिक्षेत्रे ये सर्वे समुदीरिताः
प्रयागेशं महालिंगं तत्र तिष्ठति कामदम्