पुराणश्रवणं चैव तदर्थाचरणं पुनः
प्रभूतांकुरबीजाढ्ये देशे चापि गतागतम्
असंभाष्या न संभाष्याश्चातुर्मास्य व्रतस्थितैः
निष्पावांश्च मसूरांश्च कोद्रवान्वर्जयेद्व्रती
दंतकेशांबरादीनि नित्यं शोध्यानि यत्नतः
द्वादशस्वपि मासेषु व्रतिनो यत्फलं भवेत्
चतुर्ष्वपि च मासेषु न सामर्थ्यं व्रते यदि
अव्रतः कार्तिको येषां गतो मूढधियामिह
कृच्छ्रं वा चातिकृच्छ्रं वा प्राजापत्यमथापि वा 4.2.60.
एकांतरं व्रतं कुर्यात्त्रिरात्र व्रतमेव वा
पक्षव्रतं वा कुर्वीत मासोपोषणमेव वा
शाकाहारं पयोहारं फलाहारमथापि वा
नित्यनैमित्तिकं स्नानं कुर्यादूर्जे व्रती नरः
बाहुलं ब्रह्मचर्येण यः क्षिपेच्छुचिमानसः
यस्तु कार्तिकिकं मासमुपवासैः समापयेत्
शाकाहारपयोहारैरूर्जों यैरतिवाहितः
पत्रभोजी भवेदूर्जे कांस्यं त्याज्यं प्रयत्नतः
कांस्यस्य नियमे दद्यात्कांस्यं सर्पिः प्रपूरितम्
मधुत्यागे घृतं दद्यात्पायसं च सशर्करम् 4.2.60.
पापांधकारसंक्रुद्धः कार्तिके दीपदानतः 4.2.60.
एकादशीं समासाद्य प्रबोधकरणीं मम 4.2.60.
तस्माद्द्वेषो न कर्तव्यो विश्वेशे परमात्मनि 4.2.60.
आनंदकाननं पुण्यं पुण्यं पांचनदं ततः 4.2.60.
भविष्याण्यपि कानीह तानि मे कथयाच्युत
महिमापि श्रुतः श्रेयान्सम्यक्पंचनदस्य वै
यदग्निबिंदुना पृच्छि माधवो दैत्यसूदनः
माधवेन यथाचक्षि मुनये चाग्निबिंदवे
आदौ पादोदके तीर्थे विद्धि मामादिकेशवम्
अविमुक्तेऽमृते क्षेत्रे येर्चयंत्यादिकेशवम्
संगमेशं महालिंगं प्रतिष्ठाप्यादिकेशवः