यो यद्वांछति चित्ते च जलमध्ये स्थितो नरः
त्वया तस्याः सुतं दृष्ट्वा पुत्रवांछा कृता हृदि
तस्माद्विरम भद्रं ते निर्दोषासि पतिव्रते 7.3.5.
श्रुत्वाऽऽकाशगतां वाणीं देवदूतेन भाषिताम्
अहो तीर्थप्रभावोऽयमपूर्वः प्रतिभाति मे
नाहं कुत्रापि यास्यामि मुक्त्वेदं तीर्थमुत्तमम्
पुत्रं वै जनयामास सर्वलक्षणलक्षितम्
यः पुनः कुरुते श्राद्धं तस्य वंशो न नश्यति
यः पुमान्कामरहितः स्नानं तत्र समाचरेत्
या स्त्री पुष्पफलान्येव तीर्थे चास्मिन्विसर्जयेत्
निष्कामा स्वर्गमाप्नोति दुष्प्राप्यं त्रिदशैरपि
यं दृष्ट्वा मानवः सम्यक्कृतार्थत्वमवाप्नुयात्
तत्रास्ति जलसम्पूर्णं कुण्डं पापहरं नृणाम्
गोमती च समानीता तपसा नृपसत्तम
ऋषिधान्येन यस्तत्र श्राद्धं नृप समाचरेत्
अत्र गाथा पुरा गीता नारदेन महात्म ना
किं गयाश्राद्धदानेन किमन्यैर्मखविस्तरैः स पितॄंस्तारयेत्सर्वानात्मना नृपसत्तम
तत्रैवारुंधती साध्वी वसिष्ठस्य समीपतः
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा
दीपं प्रयच्छते यस्तु वसिष्ठाग्रे समाहितः
उपवासपरो यस्तु तत्रैका रजनीं नयेत् 7.3.6.
त्रिरात्रिं कुरुते यस्तु वसिष्ठाग्रे समाहितः
यस्तु मासोपवासं च वसिष्ठाग्रे करोति च
श्रावणस्य सिते पक्षे पौर्णमास्यां समाहितः
वसिष्ठस्याग्रतो यस्तु गायत्र्यष्टशतं जपेत्
वामदेवं यजेत्तत्र यदि श्रद्धासमन्वितः
तस्मात्सर्वप्रयत्नेन द्रष्टव्योऽसौ महामुनिः
तस्मात्सर्वात्मना राजन्वामदेवं च पूजयेत्
पुलस्त्य उवाच ततो गच्छेन्नृपश्रेष्ठ सुपुण्यमचलेश्वरम्
तत्र कृष्णचतुर्दश्यां यः श्राद्धं कुरुते नरः