मुने पुनः प्रसन्नोस्मि वरं ब्रूहि ददामि ते
आदावेव हि तिष्ठासुरहमत्र तपोनिधे
प्राप्य काशीं सुदुर्मेधाः कस्त्यजेज्ज्ञानवान्यदि
अल्पीयसा श्रमेणेह वपुषो व्ययमात्रतः
विनिमय्य जराजीर्णं देहं पार्थिवमत्र वै
न तपोभिर्न वा दानैर्न यज्ञैर्बहुदक्षिणैः
अपि योगं हि युंजाना योगिनो यतमानसाः
इदमेव महादानमिदमेव महत्तपः
स एव विद्वाञ्जगति स एव विजितेंद्रियः 4.2.60.
तावत्स्थास्याम्यहं चात्र यावत्काशी मुने त्विह
इत्याकर्ण्य गिरं विष्णोरग्निबिंदुर्महामुनिः
मापते मम नाम्नात्र तीर्थे पंचनदे शुभे
येत्र पंचनदे स्नात्वा गत्वा देशांतरेष्वपि
येतु पंचनदे स्नात्वा त्वां भजिष्यंति मानवाः
त्वन्नाम्नोऽर्धेन मे नाम मया सह भविष्यति
बिंदुमाधव इत्याख्या मम त्रैलोक्यविश्रुता
ये मामत्र नराः पुण्याः पुण्ये पंचनदे ह्रदे
वसुस्वरूपिणी लक्ष्मीर्लक्ष्मीर्निर्वाणसंज्ञिका
यैर्न पंचनदं प्राप्य वसुभिः प्रीणिता द्विजाः 4.2.60.
त एव धन्या लोकेस्मिन्कृतकृत्यास्त एव हि
बिंदुतीर्थमिदं नाम तव नाम्ना भविष्यति
कार्तिके बिंदुतीर्थे यो ब्रह्मचर्यपरायणः
अपि पापसहस्राणि कृत्वा मोहेन मानवः '
यावत्स्वस्थोस्ति देहोयं यावन्नेंद्रियविक्लवः
एकभक्तेन नक्तेन तथैवायाचितेन च
कृच्छ्रचांद्रायणादीनि कर्तव्यानि प्रयत्नतः
व्रतैः संशोधिते देहे धर्मो वसति निश्चलः
तस्माद्व्रतानि सततं चरितव्यानि मानवैः
सदा कर्तुं न शक्नोति व्रतानि यदि मानवः 4.2.60.
भूशय्या ब्रह्मचर्यं च किंचिद्भक्ष्यनिषेधनम्