त्वं हंसि पासि सृजसि क्षणतः स्वलीला लीलावपुर्धर विरिंचिनतांघ्रियुग्म
स्तोता त्वमेव दनुजेंद्ररिपो स्तुतिस्त्वं स्तुत्यस्त्वमेव सकलं हि भवानिहैकः
इति स्तुत्वा हृषीकेशमग्निबिंदुर्महातपाः
श्रीविष्णुरुवाच वरं वरय सुप्रीतस्तवादेयं न किंचन
अग्निबिंदुरुवाच यदि प्रीतोसि भगवन्वैकुंठेश जगत्पते
कृतानुज्ञोथ हरिणा भ्रूभंगेन स तापसः
भगवन्सर्वगोपीह तिष्ठ पंचनदे ह्रदे
लक्ष्मीशे न वरो मह्यमेष देयोऽविचारतः
इति श्रुत्वा वरं तस्याग्निबिंदोर्मधुसूदनः 4.2.60.
काशीभक्तिमतां पुंसां मुक्तिमार्गं समादिशन्
मुने पुनः प्रसन्नोस्मि वरं ब्रूहि ददामि ते
आदावेव हि तिष्ठासुरहमत्र तपोनिधे
प्राप्य काशीं सुदुर्मेधाः कस्त्यजेज्ज्ञानवान्यदि
अल्पीयसा श्रमेणेह वपुषो व्ययमात्रतः
विनिमय्य जराजीर्णं देहं पार्थिवमत्र वै
न तपोभिर्न वा दानैर्न यज्ञैर्बहुदक्षिणैः
अपि योगं हि युंजाना योगिनो यतमानसाः
इदमेव महादानमिदमेव महत्तपः
स एव विद्वाञ्जगति स एव विजितेंद्रियः 4.2.60.
तावत्स्थास्याम्यहं चात्र यावत्काशी मुने त्विह
इत्याकर्ण्य गिरं विष्णोरग्निबिंदुर्महामुनिः
मापते मम नाम्नात्र तीर्थे पंचनदे शुभे
येत्र पंचनदे स्नात्वा गत्वा देशांतरेष्वपि
येतु पंचनदे स्नात्वा त्वां भजिष्यंति मानवाः
त्वन्नाम्नोऽर्धेन मे नाम मया सह भविष्यति
बिंदुमाधव इत्याख्या मम त्रैलोक्यविश्रुता
ये मामत्र नराः पुण्याः पुण्ये पंचनदे ह्रदे
वसुस्वरूपिणी लक्ष्मीर्लक्ष्मीर्निर्वाणसंज्ञिका
यैर्न पंचनदं प्राप्य वसुभिः प्रीणिता द्विजाः 4.2.60.
त एव धन्या लोकेस्मिन्कृतकृत्यास्त एव हि