आनंदकाननभवं दिवोदास क्षमापतेः
सुखोपविष्टः संहृष्टः सुदृष्टिर्विष्टरश्रवाः
स ऋषिस्तं समभ्येत्य पुंडरीकाक्षमच्युतम्
शंखपद्मगदाचक्र चंचत्करचतुष्टयम्
सुनीलेंदीवररुचिं सुस्निग्ध मधुराकृतिम्
दाडिमीबीजदशनं किरीटद्योतितांबरम्
दिव्यर्षिभिर्नारदाद्यैः परिगीतमहोदयम्
धृतशार्ङ्गधनुर्दंडं दंडिताखिलदानवम्
कैवल्यं यत्परं ब्रह्म निराकारमगोचरम् 4.2.60.
वेदाविदुर्यदाकारं नैवोपनिषदोदितम्
प्रणनाम मुदायुक्तः क्षितिविन्यस्तमस्तकः
तुष्टाव परया भक्त्या मौलिबद्धकरांजलिः
तत्र पंचनदाभ्याशे मार्कंडेयादि सेविते
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
नमामि ते पदद्वंद्वं सर्वद्वंद्वनिवारकम्
यं स्तोतुं नाधिगच्छंति वाचो वाचस्पतेरपि
अपि यो भगवानीशो मनःप्राचामगोचरः
यं वाचो न विशंतीशं मनतीह मनो न यम्
यस्य निःश्वसितं वेदाः स षडंगपदक्रमाः 4.2.60.
अतंद्रितमनोबुद्धींद्रिया यं सनकादयः
नारदाद्यैर्मुनिवरैराबाल ब्रह्मचारिभिः
तंसूक्ष्मरूपमजमव्ययमेकमाद्यं बह्माद्यगोचरमजेयमनंतशक्तिम्
एकैकमेव तव नामहरेन्मुरारे जन्मार्जिताघमघिनां च महापदाढ्यम्
नारायणेति नरकार्णव तारणेति दामोदरेति मधुहेति चतुर्भुजेति
ये त्वां त्रिविक्रम सदा हृदि शीलयंति कादंबिनी रुचिर रोचिषमंबुजाक्षम्
श्रीवत्सलांछनहरेच्युतकैटभारे गोविंदतार्क्ष्य रथकेशवचक्रपाणे
यैरर्चितोसि भगवंस्तुलसीप्रसूनैर्दूरीकृतैणमदसौरभदिव्यगंधैः
यद्वाचि नाम तव कामदमब्जनेत्र यच्छ्रोत्रयोस्तव कथा मधुराक्षराणि
ये त्वां भजंति सततं भुविशेषशायिंस्ताञ्छ्रीपते पितृपतींद्र कुबेरमुख्याः 4.2.60.
ये त्वां स्तुवंति सततं दिवितान्स्तुवंति सिद्धाप्सरोमरगणा लसदब्जपाणे