साप्याह पितरं त्रस्ता स्वशिलात्वस्य कारणम्
मा भैः पुत्रि करिष्यामि तव सर्वं शुभोदयम्
चंद्रोदयमनुप्राप्य द्रवीभूततनुस्ततः 4.2.59.
महापापांधतमसं किरणाख्या तरंगिणी 4.2.59.
आदौ धर्मनदः पुण्यो मिश्रितो धूतपापया
ततोपि मिलितागत्य किरणा रविणैधिता
स्नात्वा पंचनदे तीर्थे कृत्वा च पितृतर्पणम् 4.2.59.
पंचकूर्चेन पीतेन यात्र शुद्धिरुदाहृता 4.2.59.
बिंदुतीर्थे नरो दत्त्वा कांचनं कृष्णलोन्मितम् 4.2.59.
स्कंद उवाच इदानीं कथयिष्यामि माधवाविष्कृतिं पराम्
यां श्रुत्वा श्रद्धया धीमान्पापेभ्यो मुच्यते क्षणात्
आगत्य मंदरादद्रेरुपेंद्रश्चंद्रशेखरम्
दिवो दासं महीपालं समुच्चाट्य स्वमायया
महिमानं परं काश्यां विचार्य सुविचार्य च
उवाच च प्रसन्नात्मा पुंडरीकविलोचनः
क्व क्षीरनीरधौ संति तावंतो निर्मला गुणाः
श्वेतद्वीपेपि सामग्री क्व गुणानां गरीयसी
मुदे कौमोदकी स्पर्शस्तथा न मम जायते
न क्षीरनीरधिजया सुखं मे श्लिष्टगात्रया 4.2.60.
इत्थं पंचनदे तीर्थे क्षीरनीरधिजाधवः
आनंदकाननभवं दिवोदास क्षमापतेः
सुखोपविष्टः संहृष्टः सुदृष्टिर्विष्टरश्रवाः
स ऋषिस्तं समभ्येत्य पुंडरीकाक्षमच्युतम्
शंखपद्मगदाचक्र चंचत्करचतुष्टयम्
सुनीलेंदीवररुचिं सुस्निग्ध मधुराकृतिम्
दाडिमीबीजदशनं किरीटद्योतितांबरम्
दिव्यर्षिभिर्नारदाद्यैः परिगीतमहोदयम्
धृतशार्ङ्गधनुर्दंडं दंडिताखिलदानवम्
कैवल्यं यत्परं ब्रह्म निराकारमगोचरम् 4.2.60.
वेदाविदुर्यदाकारं नैवोपनिषदोदितम्