क्रीतः स्वरूपसंपत्त्या त्वयाहं देहि मे रहः
नितरां बाधते कामस्त्वत्कृते मां सुलोचने
उवाच सा पिता दाता तं प्रार्थय सुदुर्मते 4.2.59.
निशम्येति वचो धर्मो भाविनोर्थस्य गौरवात्
गांधर्वेण विवाहेन कुरु मे त्वं समीहितम्
इति निर्बंधवद्वाक्यं सा निशम्य कुमारिका
अरे जडमते मा त्वं पुनर्ब्रूहीति याह्यतः
ततः शशाप तं बाला प्रबला तपसो बलात्
इति शप्तस्तया सोथ तां शशाप क्रुधान्वितः
अविमुक्ते महाक्षेत्रे ख्यातो धर्मनदो महान्
साप्याह पितरं त्रस्ता स्वशिलात्वस्य कारणम्
मा भैः पुत्रि करिष्यामि तव सर्वं शुभोदयम्
चंद्रोदयमनुप्राप्य द्रवीभूततनुस्ततः 4.2.59.
महापापांधतमसं किरणाख्या तरंगिणी 4.2.59.
आदौ धर्मनदः पुण्यो मिश्रितो धूतपापया
ततोपि मिलितागत्य किरणा रविणैधिता
स्नात्वा पंचनदे तीर्थे कृत्वा च पितृतर्पणम् 4.2.59.
पंचकूर्चेन पीतेन यात्र शुद्धिरुदाहृता 4.2.59.
बिंदुतीर्थे नरो दत्त्वा कांचनं कृष्णलोन्मितम् 4.2.59.
स्कंद उवाच इदानीं कथयिष्यामि माधवाविष्कृतिं पराम्
यां श्रुत्वा श्रद्धया धीमान्पापेभ्यो मुच्यते क्षणात्
आगत्य मंदरादद्रेरुपेंद्रश्चंद्रशेखरम्
दिवो दासं महीपालं समुच्चाट्य स्वमायया
महिमानं परं काश्यां विचार्य सुविचार्य च
उवाच च प्रसन्नात्मा पुंडरीकविलोचनः
क्व क्षीरनीरधौ संति तावंतो निर्मला गुणाः
श्वेतद्वीपेपि सामग्री क्व गुणानां गरीयसी
मुदे कौमोदकी स्पर्शस्तथा न मम जायते
न क्षीरनीरधिजया सुखं मे श्लिष्टगात्रया 4.2.60.
इत्थं पंचनदे तीर्थे क्षीरनीरधिजाधवः