नारीणां च विशेषेण पुत्रसौभाग्यदायकम्
गौतमी ब्राह्मणी नाम्ना सती साध्वी पतिव्रता
अर्बुदं सा च संप्राप्ता नागतीर्थं विवेश ह 7.3.5.
नायका पुत्रसंयुक्ता तत्तीर्थं समुपागता
सर्वोपकरणैर्दर्भैः सुमनोभिः पृथग्विधैः
धन्योऽयं तनयो ह्यस्याः शुश्रूषां कुरुते सदा
अहं भर्त्रा वियुक्ता च पुत्रहीना सुदुःखिता
विनाऽपि भर्तृसंयोगात्सद्यो गर्भवती ह्यभूत्
चकार मरणे बुद्धिं ज्वालयामास पावकम्
दोषो नास्ति तवात्रार्थे तीर्थस्यास्य प्रभावतः
यो यद्वांछति चित्ते च जलमध्ये स्थितो नरः
त्वया तस्याः सुतं दृष्ट्वा पुत्रवांछा कृता हृदि
तस्माद्विरम भद्रं ते निर्दोषासि पतिव्रते 7.3.5.
श्रुत्वाऽऽकाशगतां वाणीं देवदूतेन भाषिताम्
अहो तीर्थप्रभावोऽयमपूर्वः प्रतिभाति मे
नाहं कुत्रापि यास्यामि मुक्त्वेदं तीर्थमुत्तमम्
पुत्रं वै जनयामास सर्वलक्षणलक्षितम्
यः पुनः कुरुते श्राद्धं तस्य वंशो न नश्यति
यः पुमान्कामरहितः स्नानं तत्र समाचरेत्
या स्त्री पुष्पफलान्येव तीर्थे चास्मिन्विसर्जयेत्
निष्कामा स्वर्गमाप्नोति दुष्प्राप्यं त्रिदशैरपि
यं दृष्ट्वा मानवः सम्यक्कृतार्थत्वमवाप्नुयात्
तत्रास्ति जलसम्पूर्णं कुण्डं पापहरं नृणाम्
गोमती च समानीता तपसा नृपसत्तम
ऋषिधान्येन यस्तत्र श्राद्धं नृप समाचरेत्
अत्र गाथा पुरा गीता नारदेन महात्म ना
किं गयाश्राद्धदानेन किमन्यैर्मखविस्तरैः स पितॄंस्तारयेत्सर्वानात्मना नृपसत्तम
तत्रैवारुंधती साध्वी वसिष्ठस्य समीपतः
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा
दीपं प्रयच्छते यस्तु वसिष्ठाग्रे समाहितः