ज्ञानेन तं समालोच्य वरमीदृग्गुणोदयम्
एषां गुणानामाधारो वरोस्तीति विनिश्चितम्
परं स सुखलभ्यो न नितरां सुभगाकृतिः 4.2.59.
तीर्थभारैः स सुलभो न कौलीन्येन कन्यके
न सौंदर्येण वपुषा न बुद्ध्या न पराक्रमैः
महातपः सहायेन दमदानदयायुजा
इति श्रुत्वाथ सा कन्या पितरं प्रणिपत्य च
तपस्तताप परमं यदसाध्यं तपस्विभिः
क्व सा बालातिमृद्वंगी क्व च तत्तादृशं तपः
धारासारा सुवर्षासु महावातवतीष्वलम्
श्रुत्वा गर्जरवं घोरं दृष्ट्वा विद्युच्चमत्कृतीः
तडित्स्फुरंतीत्वसकृत्तमिस्रासु तपोवने
तपर्तुरेव साक्षाच्च कुमारी कैतवात्किल 4.2.59.
जलाभिलाषिणी बाला न मनागपि सा पिबत्
रोमांच कंचुकवती वेपमानतनुच्छदा
निशीथिनीषु शिशिरे श्रयंती सारसं रसम्
मनस्विनामपि मनोरागतां सृजते मधौ
वसंते निवसंती सा वने बालाचलंमनः
बंधुजीवेऽधररुचिं कलहंसे कलागतीः
अपास्तभोगसंपर्का भोगिनां वृत्तिमाश्रिता
शाणेन मणिवल्लीढा कृशाप्यायादनर्घताम्
निरीक्ष्य तां तपस्यंतीं विधिः संशुद्धमानसाम्
सा चतुर्वक्त्रमालोक्य हंसयानोपरिस्थितम् 4.2.59.
सर्वेभ्यः पावनेभ्योपि कुरु मामतिपावनीम्
स्रष्टा तदिष्टमाकर्ण्य नितरां तुष्टमानसः
तेभ्यः पवित्रमतुलं त्वमेधि वरतो मम
तिस्रः कोट्योऽर्धकोटी च संति तीर्थानि कन्यके
तानि सर्वाणि तीर्थानि त्वत्तनौ प्रतिलोम वै
इत्युक्त्वांतर्दधे वेधाः सापि निर्धूतकल्मषा
कदाचित्तां समालोक्य खेलंतीमुटजाजिरे