अतिस्नेहार्द्रचित्तस्य जनेतुश्चेति भाषितम्
तदा तस्मै प्रयच्छ त्वं यमहं कथयामि ते
तुभ्यं च रोचते तात शृणोत्ववहितो भवान् ४९ . कदाचिद्यो न नश्येत यः सदैवानुवर्तते ।। 4.2.59.
इहामुत्रापि यो रक्षेन्महापदुदयाद्ध्रुवम्
दिनेदिने च सौभाग्यं वर्धते यस्य सन्निधौ
यन्नामग्रहणादेव केपि वाधां न कुर्वते
एवमाद्या गुणा यस्य वरस्य वरचेष्टितम्
एतच्छ्रुत्वापि ता तस्या भृशं मुदमवाप ह
ध्रुवा हि धूतपापासौ यस्या ईदृग्विधा मतिः
अथवा स कथं लभ्यो विना पुण्यभरोदयम्
ज्ञानेन तं समालोच्य वरमीदृग्गुणोदयम्
एषां गुणानामाधारो वरोस्तीति विनिश्चितम्
परं स सुखलभ्यो न नितरां सुभगाकृतिः 4.2.59.
तीर्थभारैः स सुलभो न कौलीन्येन कन्यके
न सौंदर्येण वपुषा न बुद्ध्या न पराक्रमैः
महातपः सहायेन दमदानदयायुजा
इति श्रुत्वाथ सा कन्या पितरं प्रणिपत्य च
तपस्तताप परमं यदसाध्यं तपस्विभिः
क्व सा बालातिमृद्वंगी क्व च तत्तादृशं तपः
धारासारा सुवर्षासु महावातवतीष्वलम्
श्रुत्वा गर्जरवं घोरं दृष्ट्वा विद्युच्चमत्कृतीः
तडित्स्फुरंतीत्वसकृत्तमिस्रासु तपोवने
तपर्तुरेव साक्षाच्च कुमारी कैतवात्किल 4.2.59.
जलाभिलाषिणी बाला न मनागपि सा पिबत्
रोमांच कंचुकवती वेपमानतनुच्छदा
निशीथिनीषु शिशिरे श्रयंती सारसं रसम्
मनस्विनामपि मनोरागतां सृजते मधौ
वसंते निवसंती सा वने बालाचलंमनः
बंधुजीवेऽधररुचिं कलहंसे कलागतीः
अपास्तभोगसंपर्का भोगिनां वृत्तिमाश्रिता