प्रत्यब्दं निर्मलानि स्युस्तीर्थराज समागमात्
महाघिनां महाघं च हरेत्पांचनदाद्बलात् तमेकमज्जनादूर्जे त्यजेत्पंचनदे ध्रुवम्
यथा पंचनदोत्पत्तिस्तथा च कथयाम्यहम्
पुरा वेदशिरा नाम मुनिरासीन्महातपाः
तपस्यतस्तस्य मुनेः पुरोदृग्गोचरं गता 4.2.59.
तस्या दर्शनमात्रेण परिक्षुब्धं मुनेर्मनः
दूरादेव नमस्कृत्य तमृषिं साभ्यभाषत
नापराध्नोम्यहं किंचिन्महोग्रतपसांनिधे
मुनीनां मानसं प्रायो यत्पद्मादपि तन्मृदु
इति श्रुत्वा वचस्तस्याः शुचेरप्सरसो मुनिः
उवाच च प्रसन्नात्मा शुचे शुचिरसि ध्रुवम्
वह्निस्वरूपा ललना नवनीत समः पुमान्
स्निह्येदुद्धृतसारोपि वह्नेः संस्पर्शमाप्य वै
अतः शुचे न भेतव्यं त्वया शुचि मनोगते
स्खलनान्न तथा हानिरकामात्तपसो मुनेः 4.2.59.
कोपात्तपः क्षयं याति संचितं यत्सुकृच्छ्रतः
अमर्षे कर्षति मनो मनोभू संभवः कुतः
ज्वलतो रोषदावाग्नेः क्व वा शांतितरोः स्थितिः
तस्मात्सर्वप्रयत्नेन प्रतीपः प्रतिघातुकः
इदानीं शृणु कल्याणि कर्तव्यं यत्त्वया शुचे
एतस्मिन्रक्षिते वीर्ये परिस्कन्ने त्वदीक्षणात्
इत्युक्ता तेन मुनिना पुनर्जातेव साप्सराः
अथ कालेन दिव्यस्त्री कन्यारत्नमजीजनत्
तस्यैव वेदशिरस आश्रमे तां निधाय सा 4.2.59.
तां च वेदशिराः कन्यां स्नेहेन समवर्धयत्
मुनिर्नाम ददौ तस्यै धूतपापेति चार्थवत्
सर्वलक्षणशोभाढ्यां सर्वावयव सुंदरीम्
दिनेदिने वर्धमानां तां पश्यन्मुमुदे भृशम्
अथाष्टवार्षिकीं दृष्ट्वा तां कन्यां स मुनीश्वरः
कस्मै दद्यावराय त्वां त्वमेवाख्याहि तं वरम्