भूर्भुवःस्वः प्रदेशेषु काशीपरमपावनम्
कुतः पंचनदं नाम तस्य तीर्थस्य षण्मुख
कथं च भगवान्विष्णुरंतरात्मा जगत्पतिः
अरूपो रूपमापन्नो ह्यव्यक्तो व्यक्ततां गतः
अजन्मानेकजन्मा च त्वनामास्फुटनामभृत्
अहृषीकोहृषीकेशो प्यनंघ्रिरपिसर्वगः 4.2.59.
स्कंद उवाच कथयामि कथामेतां नमस्कृत्य महेश्वरम्
यथा पंचनदं तीर्थं काश्यां प्रथितिमागतम्
प्रयागोपि च तीर्थेशो यत्र साक्षात्स्वयं स्थितः
हरंति सर्वतीर्थानि प्रयागस्य बलेन हि
प्रत्यब्दं निर्मलानि स्युस्तीर्थराज समागमात्
महाघिनां महाघं च हरेत्पांचनदाद्बलात् तमेकमज्जनादूर्जे त्यजेत्पंचनदे ध्रुवम्
यथा पंचनदोत्पत्तिस्तथा च कथयाम्यहम्
पुरा वेदशिरा नाम मुनिरासीन्महातपाः
तपस्यतस्तस्य मुनेः पुरोदृग्गोचरं गता 4.2.59.
तस्या दर्शनमात्रेण परिक्षुब्धं मुनेर्मनः
दूरादेव नमस्कृत्य तमृषिं साभ्यभाषत
नापराध्नोम्यहं किंचिन्महोग्रतपसांनिधे
मुनीनां मानसं प्रायो यत्पद्मादपि तन्मृदु
इति श्रुत्वा वचस्तस्याः शुचेरप्सरसो मुनिः
उवाच च प्रसन्नात्मा शुचे शुचिरसि ध्रुवम्
वह्निस्वरूपा ललना नवनीत समः पुमान्
स्निह्येदुद्धृतसारोपि वह्नेः संस्पर्शमाप्य वै
अतः शुचे न भेतव्यं त्वया शुचि मनोगते
स्खलनान्न तथा हानिरकामात्तपसो मुनेः 4.2.59.
कोपात्तपः क्षयं याति संचितं यत्सुकृच्छ्रतः
अमर्षे कर्षति मनो मनोभू संभवः कुतः
ज्वलतो रोषदावाग्नेः क्व वा शांतितरोः स्थितिः
तस्मात्सर्वप्रयत्नेन प्रतीपः प्रतिघातुकः
इदानीं शृणु कल्याणि कर्तव्यं यत्त्वया शुचे