रत्नाकरे रत्नसंख्या संख्याविद्भिरपीष्यते
अहो उदर्क एतस्य न कैश्चित्प्रतिपद्यते 4.2.58.
विलोक्य काशीं परितो मायाद्विजवपुर्हरिः 4.2.58.
अभिषिच्य महाबुद्धिः पौराञ्जानपदानपि 4.2.58.
दिव्यैर्दुकूलनेपथ्यैरलंचक्रे मुदान्वितैः 4.2.58.
अस्याख्यानस्य पठनाद्विष्णोरिव मनोरथाः
अगस्त्य उवाच सर्वज्ञ हृदयानंद गौरीचुंबितमूर्धज
सर्वज्ञाननिधे तुभ्यं नमः सर्वज्ञसूनवे
कामारिमर्धनारीशं वीक्ष्य कामकृतं किल
यदुक्तं भवता स्कंद मायाद्विजवपुर्हरिः
भूर्भुवःस्वः प्रदेशेषु काशीपरमपावनम्
कुतः पंचनदं नाम तस्य तीर्थस्य षण्मुख
कथं च भगवान्विष्णुरंतरात्मा जगत्पतिः
अरूपो रूपमापन्नो ह्यव्यक्तो व्यक्ततां गतः
अजन्मानेकजन्मा च त्वनामास्फुटनामभृत्
अहृषीकोहृषीकेशो प्यनंघ्रिरपिसर्वगः 4.2.59.
स्कंद उवाच कथयामि कथामेतां नमस्कृत्य महेश्वरम्
यथा पंचनदं तीर्थं काश्यां प्रथितिमागतम्
प्रयागोपि च तीर्थेशो यत्र साक्षात्स्वयं स्थितः
हरंति सर्वतीर्थानि प्रयागस्य बलेन हि
प्रत्यब्दं निर्मलानि स्युस्तीर्थराज समागमात्
महाघिनां महाघं च हरेत्पांचनदाद्बलात् तमेकमज्जनादूर्जे त्यजेत्पंचनदे ध्रुवम्
यथा पंचनदोत्पत्तिस्तथा च कथयाम्यहम्
पुरा वेदशिरा नाम मुनिरासीन्महातपाः
तपस्यतस्तस्य मुनेः पुरोदृग्गोचरं गता 4.2.59.
तस्या दर्शनमात्रेण परिक्षुब्धं मुनेर्मनः
दूरादेव नमस्कृत्य तमृषिं साभ्यभाषत
नापराध्नोम्यहं किंचिन्महोग्रतपसांनिधे
मुनीनां मानसं प्रायो यत्पद्मादपि तन्मृदु
इति श्रुत्वा वचस्तस्याः शुचेरप्सरसो मुनिः