पीततद्गीतपीयूष मृगपूगैरुपासितम्
वृक्षैरपि पतत्पुष्पच्छलैःकृतसमर्चनम् 4.2.58.
शिष्यं विनयकीर्तिं तं महाविनयभूषणम्
अनादिसिद्धः संसारः कर्तृकर्मविवर्जितः
ब्रह्मादिस्तंबपर्यंतं यावद्देहनिबंधनम्
यद्ब्रह्मविष्णुरुद्राद्यास्तथाख्या देहिनामिमाः
देहो यथा स्मदादीनां स्वकालेन विलीयते
विचार्यमाणे देहेस्मिन्नकिंचिदधिकं क्वचित्
निजाहारपरीमाणं प्राप्य सर्वोपि देहभृत्
यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम्
संतु नार्यः सहस्राणि रूपलावण्यभूमयः 4.2.58.
अश्वाः परः शताः संतु संत्वनेकेप्यनेकषाः
पर्यंकशायिनां स्वापे सुखं यदुपपद्यते
यथैव मरणाद्भीतिरस्मदादि वपुष्मताम्
सर्वेतनुभृतस्तुल्या यदि बुद्ध्या विचार्यते
धर्मो जीवदया तुल्यो न क्वापि जगतीतले
एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत्
अहिंसा परमो धर्म इहोक्तः पूर्वसूरिभिः
न हिंसा सदृशं पापं त्रैलोक्ये सचराचरे
संति दानान्यनेकानि किं तैस्तुच्छ फलप्रदैः
इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः 4.2.58.
वृक्षांश्छित्त्वा पशून्हत्वा कृत्वा रुधिरकर्दमम 4.2.58.
मुधा जातिविकल्पोयं लोकेषु परिकल्प्यते 4.2.58.
वंध्यानां चापि वंध्यात्वं सा परिव्राजिकाहरत् 4.2.58.
विलोक्य तं समायातं दूरादुत्कंठितो नृपः 4.2.58.
अधुना गुरुरेधित्वं मम भाग्योदयागतः 4.2.58.
विरिंचिं सारथिं कृत्वा कृत्वा विष्णुं च पत्त्रिणम् 4.2.58.
पातालं गमितः पूर्वं हरिणा विक्रमैस्त्रिभिः
इदानीं दिश मे तात कर्मनिर्मूलनक्षमम् 4.2.58.
संख्यास्ति यावती देहे देहिनो रोमसंभवा 4.2.58.