संप्राप्य पुण्यसंभारैः प्राज्ञो वाराणसीं पुरीम्
अतः प्रतिकृतिः स्वीया तत्र काश्यां मुरारिणा 4.2.58.
किंचित्काश्या उदीच्यां च गत्वा देवेन चक्रिणा
ततस्तु सौगतं रूपं शिश्राय श्रीपतिः स्वयम्
श्रीः परिव्राजिका जाता नितरां सुभगाकृतिः
विश्वयोनिं जगद्धात्रीं न्यस्तहस्ताग्रपुस्तकाम्
अत्यद्भुत महाप्राज्ञो निःस्पृहः सर्ववस्तुषु
अपृच्छत्परमं धर्मं संसारविनिमोचकम्
धर्मार्थशास्त्रकुशलं ज्ञानविज्ञानशालिनम्
स्तंभनोच्चाटनाकृष्टि वशीकर्मादिकोविदम्
पीततद्गीतपीयूष मृगपूगैरुपासितम्
वृक्षैरपि पतत्पुष्पच्छलैःकृतसमर्चनम् 4.2.58.
शिष्यं विनयकीर्तिं तं महाविनयभूषणम्
अनादिसिद्धः संसारः कर्तृकर्मविवर्जितः
ब्रह्मादिस्तंबपर्यंतं यावद्देहनिबंधनम्
यद्ब्रह्मविष्णुरुद्राद्यास्तथाख्या देहिनामिमाः
देहो यथा स्मदादीनां स्वकालेन विलीयते
विचार्यमाणे देहेस्मिन्नकिंचिदधिकं क्वचित्
निजाहारपरीमाणं प्राप्य सर्वोपि देहभृत्
यथा वितृषिताः स्याम पीत्वा पेयं मुदा वयम्
संतु नार्यः सहस्राणि रूपलावण्यभूमयः 4.2.58.
अश्वाः परः शताः संतु संत्वनेकेप्यनेकषाः
पर्यंकशायिनां स्वापे सुखं यदुपपद्यते
यथैव मरणाद्भीतिरस्मदादि वपुष्मताम्
सर्वेतनुभृतस्तुल्या यदि बुद्ध्या विचार्यते
धर्मो जीवदया तुल्यो न क्वापि जगतीतले
एकस्मिन्रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत्
अहिंसा परमो धर्म इहोक्तः पूर्वसूरिभिः
न हिंसा सदृशं पापं त्रैलोक्ये सचराचरे
संति दानान्यनेकानि किं तैस्तुच्छ फलप्रदैः