पद्मतीर्थं तदग्रे तु तत्र स्नात्वा नरोत्तमः
तत्रैव च महालक्ष्म्यास्तीर्थं त्रैलोक्यविश्रुतम्
तत्र तीर्थे कृतस्नानो दत्त्वा रत्नानि कांचनम् 4.2.58.
यत्रयत्र हि जायेत तत्रतत्र समृद्धिमान्
तत्रास्ति हि महालक्ष्म्या मूर्तिस्त्रैलोक्यवंदिता
नभस्य बहुलाष्टम्यां कृत्वा जागरणं निशि
तार्क्ष्य तीर्थं हि तत्रास्ति तार्क्ष्यकेशवसन्निधौ
तदग्रे नारदं तीर्थं महापातकनाशनम्
तत्र स्नातो नरः सम्यग्ब्रह्मविद्यामवाप्नुयात्
अर्चयित्वा नरो भक्त्या देवं नारदकेशवम्
प्रह्लादतीर्थं तस्याग्रे यत्र प्रह्लादकेशवः
आंबरीषमहातीर्थमघघ्नं तस्य सन्निधौ
आदित्यकेशवः पूज्य आदिकेशव पूर्वतः ।। 4.2.58.
दत्तात्रेयेश्वरं तीर्थं तत्रैवादिगदाधरः
भृगुकेशवपूर्वेण तीर्थं वै भार्गवं परम्
तत्र वामनतीर्थं च प्राच्यां वामनकेशवात्
नरनारायणं तीर्थं नरनारायणात्पुरः
यज्ञवाराह तीर्थं च तदग्रे पापनाशनम्
विदारनारसिंहाख्यं तत्र तीर्थं सुनिर्मलम्
गोपिगोविंद तीर्थं च गोपिगोविंदपूर्वतः
तीर्थं लक्ष्मीनृसिंहाख्यं गोपिगोविंद दक्षिणे
तदग्रे शेषतीर्थं च शेषमाधवसन्निधौ
शंखमाधवतीर्थं च तदवाच्यां सुनिर्मलम् 4.2.58.
तदग्रे च हयग्रीवं तीर्थं परमपावनम्
पिंडं च तत्र निर्वाप्य हयग्रीवस्य सन्निधौ हायग्रीवीं श्रियं प्राप्य समुच्येत सपूर्वजः
भूमौ तिलांतरायां यत्तत्र तीर्थान्यनेशः
उद्दिष्टानां तु तीर्थानामेतेषां कलशोद्भव इदानीं प्रस्तुतं विप्र शृणु वक्ष्यामि तेग्रतः
तस्यां मूर्तौ समावेश्य कैशव्यामथ केशवः
क्व निर्गतं च हरिणा प्राप्य काशीं षडानन
ब्रुवे तत्कारणमिति क्षणमात्रं निशामय