विधाय दार्षदीं मूर्तिं स्वहस्तेनादिकेशवः
आदिकेशवनाम्नीं तां श्रीमूर्तिं पारमेश्वरीम्
श्वेतद्वीप इति ख्यातं तत्स्थानं काशिसीमनि 4.2.58.
क्षीराब्धिसंज्ञं तत्रान्यत्तीर्थं केशवतोग्रतः
तत्र श्राद्धं नरः कृत्वा गां दत्त्वा च पयस्विनीम्
एकोत्तरशतं वंश्यान्नवेत्पायस कर्दमम्
बह्वीश्च नैचिकीर्दत्त्वा श्रद्धयात्र सदक्षिणाः
क्षीरोदाद्दक्षिणे तत्र शंखतीर्थमनुत्तमम्
तद्याम्यां चक्रतीर्थं च पितॄणामपि दुर्लभम्
तत्संन्निधौ गदातीर्थं विष्वगाधिनिबर्हणम्
पद्मतीर्थं तदग्रे तु तत्र स्नात्वा नरोत्तमः
तत्रैव च महालक्ष्म्यास्तीर्थं त्रैलोक्यविश्रुतम्
तत्र तीर्थे कृतस्नानो दत्त्वा रत्नानि कांचनम् 4.2.58.
यत्रयत्र हि जायेत तत्रतत्र समृद्धिमान्
तत्रास्ति हि महालक्ष्म्या मूर्तिस्त्रैलोक्यवंदिता
नभस्य बहुलाष्टम्यां कृत्वा जागरणं निशि
तार्क्ष्य तीर्थं हि तत्रास्ति तार्क्ष्यकेशवसन्निधौ
तदग्रे नारदं तीर्थं महापातकनाशनम्
तत्र स्नातो नरः सम्यग्ब्रह्मविद्यामवाप्नुयात्
अर्चयित्वा नरो भक्त्या देवं नारदकेशवम्
प्रह्लादतीर्थं तस्याग्रे यत्र प्रह्लादकेशवः
आंबरीषमहातीर्थमघघ्नं तस्य सन्निधौ
आदित्यकेशवः पूज्य आदिकेशव पूर्वतः ।। 4.2.58.
दत्तात्रेयेश्वरं तीर्थं तत्रैवादिगदाधरः
भृगुकेशवपूर्वेण तीर्थं वै भार्गवं परम्
तत्र वामनतीर्थं च प्राच्यां वामनकेशवात्
नरनारायणं तीर्थं नरनारायणात्पुरः
यज्ञवाराह तीर्थं च तदग्रे पापनाशनम्
विदारनारसिंहाख्यं तत्र तीर्थं सुनिर्मलम्
गोपिगोविंद तीर्थं च गोपिगोविंदपूर्वतः