याम्यांसृष्टिगणेशश्च सृष्टिसंहारसूचकः ९ [ प्रतीच्यां गजकर्णश्च सर्वेषां क्षेमकारकः 4.2.57.
संप्रसाद्य यथायोगं सर्वानुचित चंचुरः 4.2.57.
श्रुत्वाध्यायमिमं पुण्यं नरः श्रद्धासमन्वितः
किं चकार हरः स्कंद मंदराद्रिगतस्तदा
वाराणस्येकविषयामशेषाघौघनाशिनीम्
करींद्रवदने तत्र क्षेत्रवर्येऽविमुक्तके
प्रोक्तोथ बहुशश्चेति बहुमानपुरःसरम्
परं फलंति कर्माणि त्वदधीनानि शंकर
अचेतनानि कर्माणि स्वतंत्राः प्राणिनोपि न
किंतु त्वत्पादभक्तानां तादृशी जायते मतिः
यत्किंचिदिह वै कर्मस्तोकं वाऽस्तोकमेव वा
सुसिद्धमपि वै कार्यं सुबुद्ध्यापि स्वनुष्ठितम्
शंभुना प्रेषितेनाद्य सूद्यमः क्रियते मया 4.2.58.
अतीव यदसाध्यं स्यात्स्वबुद्धिबलपौरुषैः
यांति प्रदक्षिणीकृत्य ये भवंतं भवं विभो
जातं विद्धि महादेव कार्यमेतत्सुनिश्चितम्
अथवा काशिसंप्राप्तौ न चिंत्यं हि शुभाशुभम्
शंभुं प्रदक्षिणीकृत्य प्रणम्य च पुनःपुनः
दृशोरतिथितां नीत्वा विष्णुर्वाराणसीं ततः
गंगावरणयोर्विष्णुः संभेदे स्वच्छमानसः
तदाप्रभृति तत्तीर्थं पादोदकमितीरितम्
तत्र पादोदके तीर्थे ये स्नास्यंतीह मानवाः
तत्र श्राद्धं नरः कृत्वा दत्त्वा चैव तिलोदकम् 4.2.58.
गयायां यादृशी तृप्तिर्लभ्यते प्रपितामहैः
कृतपादोदक स्नानं पीतपादोदकोदकम्
विष्णुपादोदके तीर्थे प्राश्य पादोदकं सकृत्
सचक्र शालग्रामस्य शंखेन स्नापितस्य च
विष्णुपादोदके तीर्थे विष्णुपादोदकं पिबेत्
काश्यां पादोदके तीर्थे यैः कृता नोदकक्रियाः
कृतनित्यक्रियो विष्णुः सलक्ष्मीकः सकाश्यपिः