कूटदंताद्गणपतेरुदीच्यामेकदंतकः
काशीभयहरो नित्यमैश्यां शालकटंकटात्
कूश्मांडात्पूर्वदिग्भागे पंचास्यो नाम विघ्नराद्
हेरंबाख्यः सदाग्नेय्यां पूज्यो मुंडविनायकात्
अवाच्यामर्चयेद्धीमान्सिद्ध्यै विकटदंततः
विनायकाद्राजपुत्रात्किंचिद्रक्षोदिशिस्थितः
याम्यां प्रणवविघ्नेशाद्गणेशो मोदकप्रियः
चतुर्थावरणे काश्यां भक्तविघ्नविनाशकाः
वक्रतुंडादुदग्दिक्स्थः स्वःसिंधो रोधसिस्थितः
कौबेर्यामेकदशनात्सिंहतुंडो विनायकः 4.2.57.
कूणिताक्षो गणाध्यक्षस्त्रितुंडादीश दिक्स्थितः
प्राच्यां पंचास्यतः पायात्पुरीं क्षिप्रप्रसादनः
हेरंबाद्वह्निदिग्भागे चिंतामणि विनायकः
विघ्नराजादवाच्यां तु दंतहस्तो गणेश्वरः
वरदाद्यातुधान्यां च यातुधानगणावृतः
दृष्टः पिलिपिलातीर्थे दक्षिणे मोदकप्रियात्
प्राकारे पंचमे काश्यां द्विचतुष्क विनायकाः
तीरे स्वर्गतरंगिण्या उत्तरे चाभयप्रदात्
सिंहतुडादुदग्भागे कलिप्रिय विनायकः
कूणिताक्षात्तथैशान्यां चतुर्दंतो विनायकः 4.2.57.
याम्यांसृष्टिगणेशश्च सृष्टिसंहारसूचकः ९ [ प्रतीच्यां गजकर्णश्च सर्वेषां क्षेमकारकः 4.2.57.
संप्रसाद्य यथायोगं सर्वानुचित चंचुरः 4.2.57.
श्रुत्वाध्यायमिमं पुण्यं नरः श्रद्धासमन्वितः
किं चकार हरः स्कंद मंदराद्रिगतस्तदा
वाराणस्येकविषयामशेषाघौघनाशिनीम्
करींद्रवदने तत्र क्षेत्रवर्येऽविमुक्तके
प्रोक्तोथ बहुशश्चेति बहुमानपुरःसरम्
परं फलंति कर्माणि त्वदधीनानि शंकर
अचेतनानि कर्माणि स्वतंत्राः प्राणिनोपि न
किंतु त्वत्पादभक्तानां तादृशी जायते मतिः