तस्य वाक्यं त्वया राजन्कर्तव्यमविचारितम्
इत्युक्त्वा पृच्छ्य राजानं लब्धानुज्ञो द्विजोत्तमः
इत्थं विघ्नजिता सर्वा पुरी स्वात्मवशीकृता
कृतकृत्यमिवात्मानं ततो मत्वा स विघ्नजित् 4.2.56.
यदा स न दिवोदासः प्रागासीत्कुंभसंभव
दिवोदासे नरपतौ विष्णुनोच्चाटिते सति
स्वयमागत्य देवेन मंदरात्सुंदरां पुरीम्
कथं च बहुधात्मानं स चकार विनायकः
केनकेन स वै नाम्ना काशिपुर्यां व्यवस्थितः
इत्युदीरितमाकर्ण्य कुंभयोनेः षडाननः
महाशाखविशाखाभ्यां नंदिभृंगिपुरोगमः
नैगमेयेन सहितो रुद्रैः सर्वत्र संवृतः
समस्तायतनाधीशैर्दिक्पालैरभिनंदितः
कृतपूजोप्सरोभिश्च नृत्यहस्तकपल्लवैः
ऋषीणां ब्रह्मनिर्घोषैर्बधिरीकृतदिङ्मुखः
त्रिविष्टप वधूमुष्टिभ्रष्टैर्लाजैरितस्ततः
दत्तमाल्योपहारश्च बहुविद्याधरी गणैः
कृतप्रवेश शकुनो मृगैः शकुनिभिः पुरः
विष्णुना च महालक्ष्म्या ब्रह्मणा विश्वकर्मणा
नागांगनाभिः परितः कृतनीराजनाविधिः 4.2.57.
पश्यतां सर्वदेवानामवरुह्य वृषेंद्रतः
यदहं प्राप्तवानस्मि पुरीं वाराणसीं शुभाम्
यद्दुष्प्रसाध्यं हि पितुरपि त्रिजगतीतले
अनेन गजवक्त्रेण स्वबुद्धिविभवेरिह
पुत्रवानहमेवास्मि यच्च मे चिरचिंतितम्
इत्युक्त्वा त्रिपुरीहर्ता पुरुहूतादिभिः स्तुतः
अविघ्नविघ्नशमन महाविघ्नैकविघ्नकृत्
जय सर्वगणाधीश जय सर्व गणाग्रणीः
जय सर्वग सर्वेश सर्वबुद्ध्येकशेवधे
सर्वमंगलमांगल्य जय त्वं सर्वमंगल 4.2.57.