स बभूव मुनिः सम्यक्फलाहारसमन्वितः
जलाहारः पञ्चशतवर्षाणि संबभूव ह
पञ्चाग्निसाधको ग्रीष्मे हेमन्ते सलिलाशयः
ततस्तुष्टो महादेवस्तस्यर्षेः सुमहात्मनः तं दृष्ट्वा विस्मयाविष्टो मुनिः स्तोत्रमुदैरयत्
नमः शिवाय शुद्धाय सर्वगायाऽमृताय च
नमः स्थूलाय सूक्ष्माय व्यापकाय महात्मने
नमश्चन्द्रकलाधार नमो दिग्वसनाय च
नमस्ते ज्ञानरूपाय ज्ञानगम्याय ते नमः
काशीपते नमस्तुभ्यं गिरिशाय नमोनमः 7.3.4.
गौरीकान्त नम स्तुभ्यं नमस्तुभ्यं शिवात्मने
विश्वरूपाय शुद्धाय नमस्तुभ्यं महात्मने
परितुष्टोऽस्मि ते भद्रं वरं वरय सुव्रत
इत्युक्त्वा पर्वतं भित्त्वा तत्पुरो लिंगमुत्थितम्
मया पूर्वं प्रतिज्ञातं नगस्येह महात्मने
त्वद्वाक्याद्ब्राह्मणश्रेष्ठ सर्वं सत्यं भविष्यति
स्तोत्रेणानेन यो मर्त्यो मां स्तविष्यति भक्तितः
मत्प्रियार्थं तु शक्रेण प्रेषिता मुनिसत्तम
देवस्योत्तरदिग्भागे कुंडं तिष्ठति नित्यशः स याति परमं स्थानं जरामरणवर्जितम्
अचलं भेदयित्वा तु यस्मान्मे लिंगमुद्गतम् 7.3.4.
अस्य लिंगस्य माहात्म्यान्न कदाचिच्चलिष्यति
एतावदुक्त्वा वचनं विरराम महेश्वरः
शक्रादयस्ततो देवास्तीर्थान्यायतनानि च
ततस्तुष्टः सुरश्रेष्ठस्तत्र वासमथाकरोत्
कौतुकं सूत नो जातं कथयस्व यथा शुभम्
ययातेश्च गृहे यातस्तं नत्वा चाब्रवीन्नृपः
ययातिरुवाच स्वागतं ते मुनिश्रेष्ठ सफलं मेऽद्यजीवितम्
अर्बुदाख्यो नगो नाम विख्यातो यो धरातले
सर्वं विस्तरतो ब्रूहि तीर्थयात्रापरायण
अशक्तो विस्तराद्वक्तुमपि वर्षशतैरपि
संक्षेपादेव वक्ष्यामि तीर्थमुख्यानि ते तथा