राजापि दूरादायांतं त विलोक्यमहीसुरम्
पदैर्द्वित्रैर्नृपतिना कृताभ्युत्थानसत्कृतिः
कृतप्रणामो राज्ञा स सादरं दत्तमासनम्
परस्परं कुशलिनौ कुशलौ च कथागमे 4.2.56.
कथावसाने राज्ञाथ गेहं विससृजे द्विजः
गतेऽथ स्वाश्रमं विप्रे दिवोदासो नरेश्वरः
महादेवि महाप्राज्ञे लीलावति गुणप्रिये
अतीतं वेत्ति सकलं वर्तमानमवैति च
महाविभव संभारैर्महाभोगैरनेकधा
सत्कृत्य तं द्विजं भक्त्या दुकूलादि प्रदानतः
यथातत्त्ववती ते धीर्न तथान्यस्य मे मतिः
दृष्ट्वा त्वां तु महाप्राज्ञं शांतं दांतं तपोनिधिम्
शासितेयं मया पृथ्वी न तथान्यैस्तु पार्थिवैः
निजौरसेभ्योप्यधिकं रात्रिंदिवमतंद्रितम् 4.2.56.
द्विजपादार्चनात्किंचित्सुकृतं वेद्मि नापरम्
निर्विस्ममिव मे चेतः सांप्रतं सर्वकर्मसु
एकांते तत्तु पृष्टेन वक्तव्यं सुधिया सदा
अमात्येनाप्यपृष्टेन न वक्तव्यं नृपाग्रतः
पृष्टश्चेत्कथयामीह मा तत्र कुरु संशयम्
शृणु राजन्महाबुद्धे नायथार्थं ब्रवीम्यहम्
पुण्येन यशसा बुद्ध्या संपन्नोस्ति भवान्यथा
सुधिया त्वां गुरुं मन्ये प्रसादेन सुधाकरम्
प्रभंजनो बलेनासि श्रीदोसि श्रीसमर्पणैः
दुष्टपाशयिता पाशी यमो नियमनेऽसताम् 4.2.56.
मर्यादया भवानब्धिर्महत्त्वे हिमवानसि
संतापहर्तांबुदवत्पवित्रो गांगनामवत्
रुद्रः संहाररूपेण पालनेन चतुर्भुजः
त्वत्पाणिपद्मे कमला त्वत्क्रोधेस्ति हलाहलः
तत्किं यत्त्वयि भूजानौ सर्वदेवमयो ह्यसि
आरभ्याद्य दिनाद्भूप ब्राह्मणोऽष्टादशेहनि