सूर्योदयमनुप्राप्य प्राच्यां शुष्कतरूपरि
मध्ये विपणि यतूर्णं कौचिच्चारण्यचारिणौ
रसालशालमुकुलं वीक्ष्यते यच्छरद्यदः
साध्वसंजनयित्वेति केचिदुच्चाटिताः पुरः 4.2.56.
अथ मध्येवरोधं स प्रविश्य निजमायया
तव पुत्रशतं जज्ञे सप्तोनं शुभलक्षणे
अंतर्वत्नी त्वियं कन्या जनयिष्यति शोभनाम्
असौ हि राज्ञो राज्ञीनामत्यंतमिहवल्लभा
पंचसप्तदिनान्येव जातानीतीह तर्क्यते
इति दृष्टार्थकथनै राज्ञीमान्योभवद्द्विजः
अहो यादृगसौ विप्रः सर्वत्रातिविचक्षणः
अलोलुप उदारश्च सदाचारो जितेंद्रियः
जितक्रोधः प्रसन्नास्यस्त्वनसूयुरवंचकः
पुण्योपदेष्टा पुण्यात्मा सर्वव्रतपरायणः ।। 4.2.56.
धीरः पुण्येतिहासज्ञः सर्वदृक्सर्वसंमतः
क्षमी कुलीनोऽकृपणो भोक्ता निर्मलमानसः
इत्थं तास्तद्गुणग्रामं वर्णयंत्यः पदेपदे
एकदावसरं प्राप्य दिवोदासस्य भूभुजः
राजन्वृद्धो गुणैर्वृद्धो ब्राह्मणः सुविचक्षणः
राज्ञी राज्ञा कृतानुज्ञा सखीं प्रेष्य विचक्षणाम्
राजापि दूरादायांतं त विलोक्यमहीसुरम्
पदैर्द्वित्रैर्नृपतिना कृताभ्युत्थानसत्कृतिः
कृतप्रणामो राज्ञा स सादरं दत्तमासनम्
परस्परं कुशलिनौ कुशलौ च कथागमे 4.2.56.
कथावसाने राज्ञाथ गेहं विससृजे द्विजः
गतेऽथ स्वाश्रमं विप्रे दिवोदासो नरेश्वरः
महादेवि महाप्राज्ञे लीलावति गुणप्रिये
अतीतं वेत्ति सकलं वर्तमानमवैति च
महाविभव संभारैर्महाभोगैरनेकधा
सत्कृत्य तं द्विजं भक्त्या दुकूलादि प्रदानतः