तदंबुपिच्छिले पंके मग्नोन्मग्नोसि भूरिशः
काषायवसनो मुंडः प्रैक्ष्यहो भवतापि यः
रात्रौ सूर्यग्रहो दृष्टो महानिष्टकरो ध्रुवम्
प्रतीच्यां रविरागत्य प्रोद्यंतं व्योम्नि शीतगुम् 4.2.56.
युगपत्केतुयुगलं युध्यमानं परस्परम्
विशीर्यत्केशदशनं नीयमानं च दक्षिणे
प्रासादध्वजभंगोयस्त्वयैक्षत निशाक्षये
नगरी प्लाविता स्वप्ने तरंगैः क्षीरनीरधेः
स्वप्ने वानरयानेन यत्त्वमूढोसि दक्षिणाम्
रुदती या त्वया दृष्टा महिलैका निशात्यये
देवालयस्य कलशो यत्त्वया वीक्षितः पतन्
पुरी परिवृता स्वप्ने मृगयूथैः समंततः
आतायियूकगृध्राद्यैः पुरीमुपरिचारिभिः
स्वप्नोत्पातानिति बहूञ्शंसञ्शंसन्नितस्ततः 4.2.56.
केषांचित्पुरतो वादीद्ग्रहचारं प्रदर्शयन्
सोयं धूमग्रहो व्योम्नि भित्त्वा सप्तर्षिमंडलम्
अतिचारगतो मंदः पुनर्वक्राध्व संस्थितः
व्यतीते वासरे योयं भूकंपः समपद्यत
उदीच्यादक्षिणाशायां येयमुल्का प्रधाविता
उन्मूलितो महामूलो महानिलरयेण यः
सूर्योदयमनुप्राप्य प्राच्यां शुष्कतरूपरि
मध्ये विपणि यतूर्णं कौचिच्चारण्यचारिणौ
रसालशालमुकुलं वीक्ष्यते यच्छरद्यदः
साध्वसंजनयित्वेति केचिदुच्चाटिताः पुरः 4.2.56.
अथ मध्येवरोधं स प्रविश्य निजमायया
तव पुत्रशतं जज्ञे सप्तोनं शुभलक्षणे
अंतर्वत्नी त्वियं कन्या जनयिष्यति शोभनाम्
असौ हि राज्ञो राज्ञीनामत्यंतमिहवल्लभा
पंचसप्तदिनान्येव जातानीतीह तर्क्यते
इति दृष्टार्थकथनै राज्ञीमान्योभवद्द्विजः