निर्वाणलक्ष्मीं ये पुण्याः परिवांछंति लीलया
ममानंदवने ये वै निरं तर वनौकसः
निर्ममं चापि निर्मोहं या मामपि विमोहयेत् ।। 4.2.55.
नामापि मधुरं यस्याः परानंदप्रकाशकम्
काशीनामसुधापानं ये कुर्वंति निरंतरम्
ममतारहितस्यापि मम सर्वात्मनो ध्रुवम्
रहस्यमिति विज्ञाय वाराणस्या गणेश्वरैः
अन्यथा ताश्च योगिन्यः सरविः सपितामहः
अतीव भद्रं संजातं काश्यां तिष्ठत्सु तेषु हि
लब्धप्रवेशास्तावंतस्ते सर्वे मत्स्वरूपिणः
अन्यानपि प्रेषयामि मत्पार्श्वपरिवर्तिनः
विचार्येति महादेवः समाहूय गजाननम्
तत्रस्थितोपि संसिद्धयै यतस्व सहितो गणैः 4.2.55.
आधाय शासनं मूर्ध्नि गणाधीशोथ धूर्जटेः
शंभोः काश्यागमोपायं चिंतयन्मंदराद्रितः
प्राप्य वाराणसीं तूर्णमाशु स्यंदनगो विभुः
नक्षत्रपाठको भूत्वा वृद्धः प्रत्यवरोधगः
स्वयमेव निशाभागे स्वप्नं संदर्शयन्नृणाम्
भवद्भिरद्य रात्रौ यद्दृष्टं स्वप्नविचेष्टितम्
स्वपता भवता रात्रौ तुर्ये यामे महाह्रदः
तदंबुपिच्छिले पंके मग्नोन्मग्नोसि भूरिशः
काषायवसनो मुंडः प्रैक्ष्यहो भवतापि यः
रात्रौ सूर्यग्रहो दृष्टो महानिष्टकरो ध्रुवम्
प्रतीच्यां रविरागत्य प्रोद्यंतं व्योम्नि शीतगुम् 4.2.56.
युगपत्केतुयुगलं युध्यमानं परस्परम्
विशीर्यत्केशदशनं नीयमानं च दक्षिणे
प्रासादध्वजभंगोयस्त्वयैक्षत निशाक्षये
नगरी प्लाविता स्वप्ने तरंगैः क्षीरनीरधेः
स्वप्ने वानरयानेन यत्त्वमूढोसि दक्षिणाम्
रुदती या त्वया दृष्टा महिलैका निशात्यये