स्वोदरं भर यः सर्वे पशुपक्षिमृगादयः
तपसाद्य निजेनाहं प्रेतमेतमघातुरम्
विमृश्येति स वै चित्ते पिशाचं प्राह सत्तमः
पिशाच ते पिशाचत्वं तीर्थस्यास्य प्रभावतः
श्रुत्वेति स मुनेर्वाक्यं प्रेतः प्राह प्रणम्य तम्
पानीयं पातुमपि नो लभेयं मुनिसत्तम । स्नानस्य का कथा नाथ रक्षेयुर्जलदेवताः
पानस्याप्यत्र का वार्ता जलस्पर्शोपि दुर्लभः
उवाच च तपस्वी तं जगदुद्धरणक्षमः 4.2.54.
अस्माद्विभूतिमाहात्म्यात्प्रेत कोपि न कुत्रचित्
भालं विभूतिधवलं विलोक्य यमकिंकराः
अस्थिध्वजांकितं दृष्ट्वा यथा पांथा जलाशयम्
कृतभूति तनुत्राणं शिवमंत्रैर्नरोत्तमम्
सर्वेभ्यो दुष्टसत्त्वेभ्यो यतो रक्षेदहर्निशम्
भासनाद्भर्त्सनाद्भस्म पांसुः पांसुत्वदायतः
गृहीत्वा धारमध्यात्स भस्म प्रेतकरेऽर्पयत्
विभूतिधारिणं वीक्ष्य पिशाचं जलदेवताः
स्नात्वा पीत्वा स निर्गच्छेद्यावत्तस्माज्जलाशयात् 4.2.54.७
दिव्यमालांबरधरो दिव्यगंधानुलेपनः
गच्छता तेन गगने स तपस्वी नमस्कृतः
तस्मात्कदर्ययोनित्वादतीव परिनिंदितात्
पिशाचमोचनं तीर्थमद्यारभ्य समाख्यया
अस्मिंस्तीर्थे महापुण्ये ये स्नास्यंतीह मानवाः
दैवात्पैशाच्यमापन्नास्तेषां पितृपितामहाः
अद्यशुक्लचतुर्दश्यां मार्गेमासि तपोनिधे
इमां सांवत्सरीं यात्रां ये करिष्यंति मानवाः
पिशाचमोचने स्नात्वा कपर्दीशं समर्च्य च
मार्गशुक्लचतुर्दश्यां कपर्दीश्वर संनिधौ 4.2.54.
इत्युक्त्वा दिव्यपुरुषो भूयोभूयो नमस्य तम्
तपोधनोपि तं दृष्ट्वा महाश्चर्यं घटोद्भव
पिशाचमोचनं तीर्थं तदारभ्य महामुने