कुतस्त्वमिह संप्राप्तः कस्मात्ते गतिरीदृशी
अस्माकं तापसानां च न भयं त्वद्विधान्मनाक्
तापसोदीरितमिति तद्रक्षः प्रीतिपूवर्कम्
अनुक्रोशोस्ति यदि ते भगवंस्तापसोत्तम
प्रतिष्ठानाभिधानोस्ति देशो गोदावरी तटे
तेन कर्मविपाकेन प्राप्तोस्मि गतिमीदृशीम्
गतो बहुतरः कालस्तत्र मे वसतो मुने
वर्षत्यपि महामेघे धारासारैर्दिवानिशम् 4.2.54.
पर्वण्यदत्तदाना ये कृततीर्थप्रतिग्रहाः
गते बहुतिथे काले मरुभूमौ मुने मया
सूर्योदयमनुप्राप्य संध्याविधिविवर्जितः
मुक्तकच्छमशौचं च संध्याकर्मविवर्जितम्
स द्विजो मंदभाग्यान्मे केनचिद्वणिजा सह
अंतःपुरि प्रविष्टोभूत्स द्विजो मुनिसत्तम
प्रवेशो नास्ति चास्माकं प्रेतानां तपसां निधे
अद्यापि तानि पापानि तद्बहिर्निर्गमेच्छया
अद्य श्वो वा परश्वो वा स बहिर्निर्गमिष्यति
नाद्यापि स बहिर्गच्छेन्नाद्याप्याशा प्रयाति नः 4.2.54.
चित्रमद्यतनं वच्मि तपस्विंस्तन्निशामय
आप्रयागं प्रतिदिनं प्रयामः क्षुधिता वयम्
संति सर्वत्र फलिनः पादपाः प्रतिकाननम्
अन्यान्यपि च भक्ष्याणि सर्वेषां सुलभान्यहो
परं नो दृग्गतान्येव दूरे दूरे व्रजंत्यहो
तस्यांतिकमहं प्राप्तः क्षुधया परिपीडितः
यावत्तं तु जिघृक्षामि तावत्तद्वदनांबुजात्
शिवनामस्मरणतो मदीयमपि पातकम्
सीमस्थैः प्रमथैर्नाहं सद्यो दृग्गोचरीकृतः
अंतर्गेहस्य सीमानं प्राप्तस्तेन सहाधुना 4.2.54.
आत्मानं बहुमन्येहं त्वां विलोक्याधुना मुने
इति प्रेतवचः श्रुत्वा स कृपालुस्तपोधनः