यच्चैतच्छिखरे ह्यस्मिन्निर्झरं निर्मलोदकम्
अत्रैवाहं वसिष्यामि मित्रस्नेहात्सदा मुने 7.3.3.
अपि वंध्या च या नारी स्नानमात्रं समाचरेत्
सापि पुत्रमवाप्नोति सर्वलक्षणलक्षितम्
नभसः शुक्लपंचम्यां फलैः पूजां करोति च
येऽत्र स्नानं करिष्यंति ह्यस्मिंस्तीर्थे च भक्तितः
श्राद्धं चात्र करिष्यंति पंचम्यां ये समाहिताः
नंदिवर्द्धनमभ्येत्य वाक्यमेतदुवाच ह
वरं च व्रियतां वत्स परितुष्टोऽस्मि तेऽनघ
सांनिध्यं जायतामत्र अवश्यं तव सर्वदा
यथाहमर्बुदेत्येवं ख्यातिं गच्छामि भूतले
चक्रे स्वमाश्रमं तत्र तस्य वाक्येन नोदितः ॥ 7.3.3.
पनसैश्चंपकैराम्रैः प्रियंगुबिल्वदाडिमैः
तस्थौ तत्र मुनिश्रेष्ठो ह्यरुंधत्या समन्वितः
यस्यां स्नात्वा दिवं यांति अतिपापकृतो नराः
येत्र स्नानं करिष्यंति ते यास्यंति परां गतिम्
माघमासे विशेषेण तिलदानं करोति यः
बहुना किमिहोक्तेन स्तानमात्रं समाचरेत्
वसिष्ठस्य मुखं दृष्ट्वा पुनर्जन्म न विद्यते
सूत उवाच स कृत्वा स्वाश्रमं तत्र वसिष्ठो भगवान्मुनिः
स बभूव मुनिः सम्यक्फलाहारसमन्वितः
जलाहारः पञ्चशतवर्षाणि संबभूव ह
पञ्चाग्निसाधको ग्रीष्मे हेमन्ते सलिलाशयः
ततस्तुष्टो महादेवस्तस्यर्षेः सुमहात्मनः तं दृष्ट्वा विस्मयाविष्टो मुनिः स्तोत्रमुदैरयत्
नमः शिवाय शुद्धाय सर्वगायाऽमृताय च
नमः स्थूलाय सूक्ष्माय व्यापकाय महात्मने
नमश्चन्द्रकलाधार नमो दिग्वसनाय च
नमस्ते ज्ञानरूपाय ज्ञानगम्याय ते नमः
काशीपते नमस्तुभ्यं गिरिशाय नमोनमः 7.3.4.
गौरीकान्त नम स्तुभ्यं नमस्तुभ्यं शिवात्मने