कुंडं चखान तस्याग्रे विमलोदक संज्ञकम्
इतिहासं प्रवक्ष्यामि तत्र त्रेतायुगे पुरा
एकः पाशुपत श्रेष्ठो वाल्मीकिरिति संज्ञितः
एकदा स हि हेमंते मार्गे मासि तपोधनः
चकार भस्मना स्नानमापादतलमस्तकम्
न्यस्तमस्तकपांसुश्च संध्यामाध्यात्मिकीं स्मरन्
कृत्वा संहारमार्गेण सप्रमाणं प्रदक्षिणाम्
प्रणवं पुरतः कृत्वा षड्जादिस्वरभेदतः 4.2.54.
अंगहारैर्मनोहारि चारी मंडलसंयुतम्
अद्राक्षीद्राक्षसं घोरमतीव विकृताकृतिम्
रूक्षस्फुटितकेशाग्रं महालंब शिरोधरम्
महाविशालमौलिं च प्रोर्ध्वीभूतशिरोरुहम्
प्रलंबित ललज्जिह्वमत्युत्कट कृकाटिकम्
निमग्नकक्षाकुहरं शुष्कह्रस्व भुजद्वयम्
विशुष्क पांसुलोत्क्रोडं पृष्ठलग्नोदरत्वचम्
प्रलंब स्फिग्युगयुतं शुष्कमुष्काल्पमेहनम्
अस्थिचर्मावशेषं च शिराजालितविग्रहम्
अतिविस्तृत पादं च दीर्घवक्रकृशांगुलिम् 4.2.54.
विकटं भीषणाकारं क्षुत्क्षाममतिलोमशम्
मूर्तं भयानकमिव सर्वप्राणिभयप्रदम् अतिदीनाननं कस्त्वमिति धैर्येण पृष्टवान्
कुतस्त्वमिह संप्राप्तः कस्मात्ते गतिरीदृशी
अस्माकं तापसानां च न भयं त्वद्विधान्मनाक्
तापसोदीरितमिति तद्रक्षः प्रीतिपूवर्कम्
अनुक्रोशोस्ति यदि ते भगवंस्तापसोत्तम
प्रतिष्ठानाभिधानोस्ति देशो गोदावरी तटे
तेन कर्मविपाकेन प्राप्तोस्मि गतिमीदृशीम्
गतो बहुतरः कालस्तत्र मे वसतो मुने
वर्षत्यपि महामेघे धारासारैर्दिवानिशम् 4.2.54.
पर्वण्यदत्तदाना ये कृततीर्थप्रतिग्रहाः
गते बहुतिथे काले मरुभूमौ मुने मया