स्वर्धुन्याः पश्चिमे तीरे नत्वा दशहरेश्वरम्
यत्काश्यां दक्षिणद्वारमंतर्गेहस्य कीर्त्यते
इति ब्राह्मणवेषेण वाराणस्यां महाधिया
दिवोदासोपि राजेंद्रो वृद्धब्राह्मणरूपिणे
ब्रह्मेश्वरसमीपे तु ब्रह्मशाला मनोहरा
इति ते कथितो ब्रह्मन्महिमातिमहत्तरः 4.2.52.
श्रुत्वाध्यायमिमं पुण्यं श्रावयित्वा तथैव च
किं चकार पुनः शंभुस्तत्र ब्रह्मण्यपि स्थिते
शृण्वगस्त्य महाभाग काश्यां ब्रह्मण्यपिस्थिते
पुरी सा यादृशी काशी वशीकरणभूमिका
यो यो याति पुरीं तां तु स स तत्रैव तिष्ठति
अकिंचित्करतां प्राप्तः स सहस्रकरोप्यरम्
चिंतयन्निति देवेशो गणानारहूय भूरिशः
किं कुर्वंति तु योगिन्यः किं करोति स भानुमान्
नामग्राहं ततःऽप्रैषीद्बहुमान पुरःसरम्
सोमनंदिन्नंदिषेण काल पिंगल कुक्कुट
तिलपर्ण स्मृलकर्ण दृमिचंड प्रभामय 4.2.53.
वीरभद्र किराताख्य चतुर्मुख निकुंभक
विराध सुमुखाषाढे भवंतो मम सूनवः
यथा शाखविशाखौ च यथेमौ नंदिभृंगिणौ
काशीप्रवृत्तिं नो जाने दिवोदासनृपस्य च
शंकुकर्णमहाकालौ कालस्यापि प्रकंपनौ
कृतप्रतिज्ञौ तो(?) तूर्णं प्राप्य वाराणसीं पुरीम्
यथैंद्रजालिकीं दृष्ट्वा मायामिह विचक्षणः
अहो मोहस्य माहात्म्यमहो भाग्यविपर्ययः
तत्यजे यैरियं काशी महाशीर्वादभूभिका
यत्र सर्वावभृथतः स्नानमात्रं विशिष्यते 4.2.53.
यत्रैकपुष्पदानेन शिवलिंगस्य मूर्धनि
यत्र दंडप्रणामेन अप्येकेन शिवाग्रतः
यत्रैकद्विजमात्रं तु भोजयित्वा यथेच्छया