इति जोषं स्थितं विप्रं प्रत्युवाच नृपोत्तमः
दासोस्मि यज्ञसंभारान्नयमेको शतोऽखिलान्
यदस्ति मेखिलं तत्र सप्तांगेपि भवान्प्रभुः
राज्यं करोमि यद्ब्रह्मन्स्वार्थं तन्न मनागपि
राज्ञां क्रतुक्रियाभ्योपि तीर्थेभ्योपि समंततः
प्रजासंतापजोवह्निर्वज्राग्नेरपि दारुणः
यदावभृथसिस्रासुर्भवेयं द्विजसत्तम 4.2.52.
हवनं ब्राह्मणमुखे यत्करोमि द्विजोत्तम
अभिलाषेषु सर्वेषु जागर्त्येको हृदीह मे
अहो अहोभिर्बहुभिः फलितो मे मनोरथः
एकाग्रमानसो विप्र यज्ञान्विपुलदक्षिणान्
इति राज्ञो महाबुद्धेर्धर्मशीलस्य भाषितम्
साहाय्यं प्राप्य राजर्षेर्दिवोदासस्य पद्मभूः
अद्यापि होमधूमोघैर्यद्व्याप्तं गगनांतरम्
तीर्थं दशाश्वमेधाख्यं प्रथितं जगतीतले
पुरा रुद्रसरो नाम तत्तीर्थं कलशोद्भव
स्वर्धुन्यथ ततः प्राप्ता भगीरथसमागमात् 4.2.52.
विधिर्दशाश्वमेधेशं लिंगं संस्थाप्य तत्र वै
राज्ञो धर्मरतेस्तस्य च्छिद्रं नावाप किंचन
क्षेत्रप्रभावं विज्ञाय ध्यायन्विश्वेश्वरं शिवम्
परातनुरियं काशी विश्वेशस्येति निश्चितम्
कः प्राप्य काशीं दुर्मेधाः पुनस्त्यक्तुमिहेह ते
विश्वसंतापसंहर्तुः स्थाने विश्वपतेस्तनुः
प्राप्य काशीं त्यजेद्यस्तु समस्ताघौघनाशिनीम्
निर्वाणलक्ष्मीं यः कांक्षेत्त्यक्त्वा संसारदुर्गतिम्
यः काशीं संपरित्यज्य गच्छेदन्यत्र दुर्मतिः
निबर्हणी मधौघस्य सुपुण्य परिबृंहिणीम् 4.2.52.
सत्यलोके क्व तत्सौख्यं क्व सौख्यं वैष्णवे पदे
वाराणसीगुणगणान्निर्णीय द्रुहिणस्त्विति
दशाश्वमेधिकं प्राप्य सर्वतीर्थोत्तमोत्तमम्