कृतमानो नृपतिना सोभ्युत्थानासनादिभिः
त्वं तु मां नैव जानासि जाने त्वां हि रिपुंजयम्
परःशता मया दृष्टा राजानो भूरिदक्षिणाः
विनिष्कृतारिषड्वर्गाः सुशीलाः सत्त्वशालिनः
दयादाक्षिण्यनिपुणाः सत्यव्रतपरायणाः
जितरोषरयाः शूराः सौम्यसौंदर्यभूमयः
परं द्वित्राः पवित्रा ये राजर्षे तव सद्गुणाः
प्रजानिजकुटुंबस्त्वं त्वं तु भूदेवदैवतः 4.2.52.
धन्यो मान्योसि च सतां पूजनीयोसि सद्गुणैः
किं नः स्तुत्या तव नृप द्विजानामस्पृहावताम्
गोष्ठी तिष्ठत्वियं तावत्प्रस्तुतं स्तौमि सांप्रतम्
त्वया राजन्वती चैषाऽवनिः सर्वर्धिभाजनम्
इयं च राजधानी ते कर्मभूमावनुत्तमा
संचितं यद्धनं पुंभिर्नयसन्मार्गगामिभिः
महिमानं परं काश्याः कोपि वेद न भूपते
मन्ये धन्यतरोसि त्वं बहुजन्मशतार्जितैः
विश्वेशानुग्रहेणैव त्वयैषा पाल्यते पुरी 4.2.52.
अन्यच्च ते हितं वच्मि यदि ते रोचतेऽनघ
अन्यदेवधिया राजन्विश्वेशं पश्य मा क्वचित्
विप्रैरुदर्कमिच्छद्भिः शिक्षणीया यतो नृपाः
इति जोषं स्थितं विप्रं प्रत्युवाच नृपोत्तमः
दासोस्मि यज्ञसंभारान्नयमेको शतोऽखिलान्
यदस्ति मेखिलं तत्र सप्तांगेपि भवान्प्रभुः
राज्यं करोमि यद्ब्रह्मन्स्वार्थं तन्न मनागपि
राज्ञां क्रतुक्रियाभ्योपि तीर्थेभ्योपि समंततः
प्रजासंतापजोवह्निर्वज्राग्नेरपि दारुणः
यदावभृथसिस्रासुर्भवेयं द्विजसत्तम 4.2.52.
हवनं ब्राह्मणमुखे यत्करोमि द्विजोत्तम
अभिलाषेषु सर्वेषु जागर्त्येको हृदीह मे
अहो अहोभिर्बहुभिः फलितो मे मनोरथः