चरणौ विचरेतांयौ विश्वभर्तृ पुरी भुवि
इह श्रुतिमतां पुंसां याभ्यां काशी श्रुता सकृत्
येनानुमन्यते चैषा काशी सर्वप्रमाणभूः ययैतद्धूर्जटेर्धाम धृतं स्व विषयीकृतम्
वरं तृणानि धान्यानि तानि वात्याहतान्यपि
अद्य मे सफलं चायुः परार्धद्वय संमितम्
अहो मे धर्मसंपत्तिरहोमे भाग्यगौरवम्
अद्य मे स्वतपो वृक्षो मनोरथफलैरलम्
मया व्यधायि बहुधा सृष्टिः सृष्टिं वितन्वता 4.2.52.
इति हृष्टमना वेधा दृष्ट्वा वाराणसीं पुरीम्
जलार्द्राक्षतपाणिश्च स्वस्त्युक्त्वा पृथिवीभुजे
कृतमानो नृपतिना सोभ्युत्थानासनादिभिः
त्वं तु मां नैव जानासि जाने त्वां हि रिपुंजयम्
परःशता मया दृष्टा राजानो भूरिदक्षिणाः
विनिष्कृतारिषड्वर्गाः सुशीलाः सत्त्वशालिनः
दयादाक्षिण्यनिपुणाः सत्यव्रतपरायणाः
जितरोषरयाः शूराः सौम्यसौंदर्यभूमयः
परं द्वित्राः पवित्रा ये राजर्षे तव सद्गुणाः
प्रजानिजकुटुंबस्त्वं त्वं तु भूदेवदैवतः 4.2.52.
धन्यो मान्योसि च सतां पूजनीयोसि सद्गुणैः
किं नः स्तुत्या तव नृप द्विजानामस्पृहावताम्
गोष्ठी तिष्ठत्वियं तावत्प्रस्तुतं स्तौमि सांप्रतम्
त्वया राजन्वती चैषाऽवनिः सर्वर्धिभाजनम्
इयं च राजधानी ते कर्मभूमावनुत्तमा
संचितं यद्धनं पुंभिर्नयसन्मार्गगामिभिः
महिमानं परं काश्याः कोपि वेद न भूपते
मन्ये धन्यतरोसि त्वं बहुजन्मशतार्जितैः
विश्वेशानुग्रहेणैव त्वयैषा पाल्यते पुरी 4.2.52.
अन्यच्च ते हितं वच्मि यदि ते रोचतेऽनघ
अन्यदेवधिया राजन्विश्वेशं पश्य मा क्वचित्
विप्रैरुदर्कमिच्छद्भिः शिक्षणीया यतो नृपाः