श्रीसूर्य उवाच तथास्त्विति महाप्राज्ञ शृण्वन्यं वरमुत्तमम्
अस्याः सान्निध्यमत्राहं न त्यक्ष्यामि कदाचन
विमलादित्य इत्याख्या भक्तानां वरदा सदा
इति दत्त्वा वरान्सूर्यस्तत्रैवांतरधीयत
इत्थं स विमलादित्यो वाराणस्यां शुभप्रदः
यश्चैतां विमलादित्यकथां वै शृणुयान्नरः 4.2.51.
यमेशं च यमादित्यं यमेन स्थापितं नमन् 4.2.51.
श्रुत्वाध्यायानिमान्पुण्यान्द्वादशादित्यसूचकान्
स्कंद उवाच गभस्तिमालिनिगते काशीं त्रैलोक्यमोहिनीम्
नाद्याप्यायांति योगिन्यो नाद्याप्यायाति तिग्मगुः
किमत्र चित्रं यत्काशी मदीयमपिमानसम्
अधाक्षिपमहं कामं त्रिजगज्जित्त्वरंदृशा
काशीप्रवृत्तिमन्वेष्टुं कं वा प्रहिणुयामितः
इत्याहूय विधातारं बहुमानपुरःसरम्
योगिन्यः प्रेषिताः पूर्वं प्रेषितोथ सहस्रगुः
सा समुत्सुकयेत्काशी लोकेश मम मानसम्
मंदरेत्र रतिर्मे न भृशं सुंदरकंदरे
ना बाधिष्ट तथा मां स तापो हालाहलोद्भवः 4.2.52.
शीतरश्मिः शिरःस्थोपि वर्षन्पीयूषसीकरैः
विधे विधेहि मे कार्यमार्य धुर्य महामते
ब्रह्मंस्त्वमेव तद्वेत्सि काशी त्यजनकारणम्
अद्यैव किं न गच्छेयं काशीं ब्रह्मन्स्वमायया
विधे सर्वविधेयानि त्वमेव विदधासि यत्
अरिष्टं गच्छ पंथास्ते शुभोदर्को भवत्वलम्
सितहंसरथस्तूर्णं प्राप्य वाराणसीं पुरीम्
हंसयानफलं मेद्य जातं काशीसमागमे
दृशि धातुरभूद्य मदृशो प्राप्य सान्वयः
स्वयं सिंचति या मद्भिः स्वाभिः स्वर्गतरंगिणी 4.2.52.
निर्विशंति सदा काश्यां फलान्यानंदवंत्यपि
आनंदरूपा जायंते तेन काश्यां हि जंतवः