अयमेव परोयोगस्त्विदमेव परं तपः
यैर्लिंगं सकृदप्यत्र पूजितं पार्वतीपतेः
सर्वं परित्यज्य रवे यो लिंगं शरणं गतः
लिंगार्चने भवेद्वृद्धिस्तेषामेवात्र भास्कर
न लिंगाराधनात्पुण्यं त्रिषुलोकेषु चापरम्
तस्माल्लिंगं त्वमप्यर्क समर्चय महेशितुः 4.2.51.
इति श्रुत्वा हरेर्वाक्यं तदारभ्य सहस्रगुः
गुरुत्वेन तदाकल्य विवस्वानादिकेशवम्
अतः स केशवादित्यः काश्यां भक्ततमोनुदः
केशवादित्यमाराध्य वाराणस्यां नरोत्तमः
तत्र पादोदके तीर्थेकृतसर्वोदकक्रियः
अगस्ते रथसप्तम्यां रविवारो यदाप्यते
स्नात्वोषसि नरो मौनी केशवादित्यपूजनात्
यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु
एतज्जन्मकृतं पापं यच्च जन्मांतरार्जितम्
इति सप्तविधं पापं स्नानान्मे सप्तसप्तिके 4.2.51.
एतन्मंत्रत्रयं जप्त्वा स्नात्वा पादोदके नरः
केशवादित्यमाहात्म्यं शृण्वञ्श्रद्धासमन्वितः
हरिकेशवने रम्ये वाराणस्यां व्यवस्थितम्
उच्चदेशेभवत्पूर्वं विमलो नाम बाहुजः
कुष्ठरोगमवाप्योच्चैस्त्यक्त्वा दारान्गृहं वसु
करवीरैर्जपाभिश्च गंधकैः किंशुकैः शुभैः
विचित्ररचनैर्माल्यैः पाटलाचंपकोद्भवैः
देवमोहनधूपैश्च बह्वामोदततांबरैः
अर्घदानैश्च विधिवत्सौरेः स्तोत्रजपैरपि
उवाच च वरं ब्रूहि विमलामलचेष्टित 4.2.51.
आकर्ण्य विमलश्चेत्थमालापं रश्मिमालिनः ।। प्रणतो दंडवद्भूमौ संप्रहष्टतनूरुहः
शनैर्विज्ञापयांचक्र एकचक्ररथं रविम्
यदि प्रसन्नो भगवन्यदि देयो वरो मम
अन्येपि रोगा मा संतु मास्तु तेषां दरिद्रता