व्योम्नि संचरमाणेन सप्ताश्वेनादिकेशवः
कौतुकादिव उत्तीर्य हरे रविरुपाविशत्
प्रतीक्षमाणोवसरं किंचित्प्रष्टुमना हरिम्
स्वागतं ते हरिः प्राह बहुमानपुरःसरम्
अथावसरमालोक्य लोकचक्षुरधोक्षजम्
तवापि पूज्यः कोप्यस्ति जगत्पूज्यात्र माधव ।। 4.2.51.
त्वत्तश्चाविर्भवेदेतत्त्वयि सर्वं प्रलीयते
इत्याश्चर्यं समालोक्य प्राप्तोस्म्यत्र तवांतिकम्
इति श्रुत्वा हृषीकेशः सहस्रांशोरुदीरितम्
एक एव हि पूज्योत्र सर्वकारणकारणम्
अत्र त्रिलोचनादन्यं समर्चयतियोल्पधीः
एको मृत्युंजयः पूज्यो जन्ममृत्युजराहरः
कालकालं समाराध्य भृंगी कालं जिगायवै
विजिग्ये त्रिपुरं यस्तु हेलयैकेषु मोक्षणात्
त्रिजगज्जयिनो हेतोस्त्र्यक्षस्याराधनं परम्
यस्याक्षिपक्ष्मसंकोचाज्जगत्संकोचमेत्यदः 4.2.51.
शंभोर्लिंगं समभ्यर्च्य पुरुषार्थचतुष्टयम्
समर्च्य शांभवं लिंगमपिजन्मशतार्जितम्
किंकिं न संभवेदत्र शिवलिंगसमर्चनात्
त्रैलोक्यैश्वर्यसंपत्तिर्मया प्राप्ता सहस्रगो
अयमेव परोयोगस्त्विदमेव परं तपः
यैर्लिंगं सकृदप्यत्र पूजितं पार्वतीपतेः
सर्वं परित्यज्य रवे यो लिंगं शरणं गतः
लिंगार्चने भवेद्वृद्धिस्तेषामेवात्र भास्कर
न लिंगाराधनात्पुण्यं त्रिषुलोकेषु चापरम्
तस्माल्लिंगं त्वमप्यर्क समर्चय महेशितुः 4.2.51.
इति श्रुत्वा हरेर्वाक्यं तदारभ्य सहस्रगुः
गुरुत्वेन तदाकल्य विवस्वानादिकेशवम्
अतः स केशवादित्यः काश्यां भक्ततमोनुदः
केशवादित्यमाराध्य वाराणस्यां नरोत्तमः