यथा मे चिंत्यते नित्यं धेन्वर्थं श्वभ्रपूरणे
तस्मात्त्वं पूरय क्षिप्रं नान्यः शक्तोऽत्र कर्मणि
चिन्तयामास तत्कार्यं विवरस्य प्रपूरणे
चिरं विचार्य तमृषिमिदमाह नगोत्तमः
पक्षच्छेदस्तु शक्रेण सर्वेषां च पुरा कृतः
वसिष्ठ उवाच अस्त्युपायो नगानां तु तत्र नेतुं महानग
तस्यार्बुद इति ख्पातो वयस्यः परमं प्रियः
स वा ऊर्ध्वगतिः क्षिप्रं क्षणान्नेष्यत्यसंशयः
आदेशो दीयतामस्य दुःखं कर्तुं च नार्हसि
दुःखेन महताऽऽविष्टश्चिंतयामास भूधरः
मैनाकस्तनयोऽस्माकं प्रविष्टः सागरे भयात् किं कृत्यमधुनाऽस्माकं कथं श्रेयो भविष्यति
इतः शापभयं तीव्रमितो दुःखं च पुत्रजम् 7.3.3.
स एवं निश्चयं कृत्वा नंदिवर्धनमुक्तवान्
तत्रास्ति विवरो रौद्रस्तं प्रपूरय सत्वरम्
पालाशैः खादिरैराढ्यो धवैः शाल्मलिभिस्तथा
सुनिष्ठुरैर्नृपशुभिर्भिल्लैश्च विविधैरपि नार्होऽहं पर्वतश्रेष्ठ तत्र गंतुं कथंचन
अथोवाच वसिष्ठस्तं संत्रस्तं नंदिवर्द्धनम्
तव मूर्ध्नि सदा वासो मम तत्र भविष्यति
वृक्षाश्च विविधाकाराः पत्रपुष्पफलान्विताः
अहमेवानयिष्यामि तवार्थे च महेश्वरम्
अर्बुदं नागमासाद्य वाक्यमेतदुवाच ह
तत्र यावोऽद्य भद्रं ते वयस्य विनयान्वित 7.3.3.
तत्रैव च वसिष्यामि त्वया सार्द्धमसंशयम्
किं त्वहं प्रणयाद्भ्रातर्वक्ष्यामि यद्वचः शृषु
मन्नाम्ना ख्यातिमायातु नान्यत्किंचिद्वृणोम्यहम् प्रणम्य पितरौ चैव प्रतस्थे मुनिना सह
दिव्यैर्वृक्षैः शुभैः पूर्णैर्नदीनिर्झरसंकुलैः
मुक्तोऽर्बुदेन तत्रैव विवरे मुनिवाक्यतः
विमुक्तो विवरे तस्मिन्नर्बुदेन महात्मना
ब्रवीच्चार्बुदं नागं वरं वरय सुव्रत
अवश्यं यदि दातव्यं तच्छृणुष्व द्विजोत्तम