अंडं तृतीयं मा भिंधि ह्यनिष्पन्नं ममेव हि
इत्युक्त्वा सोरुणोगच्छदुड्डीयानंदकाननम्
एतत्ते पृच्छतः ख्यातं विनता दास्यकारणम्
अनूरुत्वादनूरुर्योरुणः क्रोधारुणो यतः
सोपि प्रसन्नो दत्त्वाथ वरांस्तस्मा अनूरवे
तिष्ठानूरो मम रथे सदैव विनतात्मज 4.2.51.
अत्र त्वत्स्थापितां मूर्तिं ये भजिष्यंति मानवाः
येर्चयिष्यंति सततमरुणादित्यसंज्ञकम्
व्याधिभिर्नाभिभूयंते नो पसर्गैश्च कैश्चन
अथ स्यंदनमारोप्य नीतवानरुणं रविः
यः कुर्यात्प्रातरुत्थाय नमस्कारं दिनेदिने
अरुणादित्यमाहात्म्यं यः श्रोष्यति नरोत्तमः
स्कंद उवाच यस्य श्रवणमात्रेण नरो नो दुष्कृतं भजेत्
पुरात्र वृद्धहारीतो वाराणस्यां महातपाः
मूर्तिं संस्थाप्य शुभदां भास्वतः शुभलक्षणाम्
तुष्टस्तस्मै वरं प्रादाद्ब्रध्नो वृद्धतपस्विने 4.2.51.
सोथ प्रसन्नाद्द्युमणेरवृणीत वरं मुनिः
तपःकरण सामर्थ्यं स्थविरस्य न मे यतः
तप एव परो धर्मस्तप एव परं वसु
ऋतेन तपसः क्वापि लभ्या ऐश्वर्यसंपदः
ततस्तपश्चरिष्यामि लोकद्वयमहत्त्वदम्
धिग्जरांप्राणिनामत्र यया सर्वो विरज्यति
वरं मरणमेवास्तु मा जरास्त्वतिशोच्यकृत्
कांक्षंति दीर्घतपसे चिरमायुर्जितेंद्रियाः
वृद्धस्यवार्धकं ब्रध्नस्तत्क्षणादपहृत्य वै
एवं स वृद्धहारीतो वाराणस्यां महामुनिः 4.2.51.
वृद्धेनाराधितो यस्माद्धारीतेन तपस्विना
वृद्धादित्यं समाराध्य वाराणस्यां घटोद्भव
वृद्धादित्यं नमस्कृत्य वाराणस्या रवौ नरः
यथा तु केशवं प्राप्य सविता ज्ञानमाप्तवान्