कौशिको राज्यमाप्यापि श्रेष्ठत्वात्पक्षिणां मुने
क्रूराक्षोयं दिवांधोयं सदा वक्रनखस्त्वसौ
इत्थं तस्य गुणग्रामान्विकथ्य बहुशः खगाः
कौशिकेथ तथावृत्ते पुत्रवीक्षणलालसा
पूर्णे वर्षसहस्रे तु प्रस्फोट्य घटसंभव
तावत्सर्वाणि गात्राणि तस्यातिमहसः शिशोः 4.2.51.
अंडान्निर्गतमात्रेण क्रोधारुणमुखश्रिया
जनयित्रि त्वया दृष्ट्वा काद्रवेयान्स्वलीलया
तदनिष्पन्न सर्वांगः शपामि त्वा विहंगमे
वेपमानाथ तच्छापादिदं प्रोवाच पक्षिणी
अंडं तृतीयं मा भिंधि ह्यनिष्पन्नं ममेव हि
इत्युक्त्वा सोरुणोगच्छदुड्डीयानंदकाननम्
एतत्ते पृच्छतः ख्यातं विनता दास्यकारणम्
अनूरुत्वादनूरुर्योरुणः क्रोधारुणो यतः
सोपि प्रसन्नो दत्त्वाथ वरांस्तस्मा अनूरवे
तिष्ठानूरो मम रथे सदैव विनतात्मज 4.2.51.
अत्र त्वत्स्थापितां मूर्तिं ये भजिष्यंति मानवाः
येर्चयिष्यंति सततमरुणादित्यसंज्ञकम्
व्याधिभिर्नाभिभूयंते नो पसर्गैश्च कैश्चन
अथ स्यंदनमारोप्य नीतवानरुणं रविः
यः कुर्यात्प्रातरुत्थाय नमस्कारं दिनेदिने
अरुणादित्यमाहात्म्यं यः श्रोष्यति नरोत्तमः
स्कंद उवाच यस्य श्रवणमात्रेण नरो नो दुष्कृतं भजेत्
पुरात्र वृद्धहारीतो वाराणस्यां महातपाः
मूर्तिं संस्थाप्य शुभदां भास्वतः शुभलक्षणाम्
तुष्टस्तस्मै वरं प्रादाद्ब्रध्नो वृद्धतपस्विने 4.2.51.
सोथ प्रसन्नाद्द्युमणेरवृणीत वरं मुनिः
तपःकरण सामर्थ्यं स्थविरस्य न मे यतः
तप एव परो धर्मस्तप एव परं वसु
ऋतेन तपसः क्वापि लभ्या ऐश्वर्यसंपदः