प्रवेश्य कंठतालुस्थं तं विज्ञाय द्विजस्फुटम्
तमुद्गीर्णं नरं दृष्ट्वा पक्षिराट्समभाषत
स तदाहेति विप्रोहं पृष्टः सन्गरुडाग्रतः
तं प्रेष्य गरुडो दूरं भक्षयित्वाथ भूरिशः
तं दृष्ट्वा तिग्मतेजस्कं ज्वालाततदिगंतरम्
ते सन्नह्यंत युद्धाय सज्जीकृत बलायुधाः
तिर्यग्गतीरविर्नायं नायमग्निः सधूमवान्
न दैत्येषु प्रभेदृक्स्यान्नाकृतिर्दानवेष्वियम्
यावत्संभावयंतीति नीतिज्ञा अपि निर्जराः
निपेतुः पक्षवातेन सायुधाश्च सवाहनाः 4.1.50.
अथ तेषु प्रणष्टेषु बुद्ध्या विज्ञाय पक्षिराट्
शस्त्रास्त्रोद्यतपाणींस्तान्सुरानाधूय सर्वशः
मनःपवनवेगेन भ्रममाणं महारयम्
उपोपविश्य पक्षींद्रस्तस्य यंत्रस्य निर्भयः
स्प्रष्टुं न लभ्यते चैतद्वात्या न प्रभवेदिह
न बलं प्रभवेदत्र न किंचिदपि पौरुषम्
यदि मे शंकरे भक्तिर्निर्द्वंद्वातीव निश्चला
यद्यहं मातृभक्तोस्मि स्वामिनः शंकरादपि
आत्मार्थं नोद्यमश्चायं हृत्स्थो वेत्तीति विश्वगः
जरितौ पितरौ यस्य बालापत्यश्च यः पुमान् 4.1.50.
ततः कैटभजित्प्राह वैनतेयं मुदान्वितः 4.1.50.
इत्युक्त्वा सहितो मात्रा वैनतेयो विनिर्ययौ 4.1.50.
विश्वेशानुगृहीतानां विच्छिन्नाखिलकर्मणाम् 4.1.50.
काश्यां प्रसन्नौ संजातौ देवौ शंकरभास्करौ 4.1.50.
तस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते नरश्चिंतितमाप्नोति नीरोगो जायते क्षणात् ।। 4.1.50.
नरः श्रुत्वैतदाख्यानं खखोल्कादित्यसंभवम्
श्रीगणेशाय नमः अगस्तिरुवाच पार्वती हृदयानंद सर्वज्ञांगभव प्रभो
दक्ष प्रजापतेः पुत्री कश्यपस्य परिग्रहः
तदप्यहं समाख्यामि निशामय महामते
कद्रूरजीजनत्पुत्राञ्शतं कश्यपतः पुरा