उच्चरेदृग्यजुःसाम्नामृचमेकामपीह यः
गरुड उवाच तस्यैतेष्वेकमप्येव न मन्ये लक्ष्मबोधकम्
लक्ष्मांतरं समाचक्ष्व द्विजबोधकरं प्रसूः
तच्छ्रुत्वा विनता प्राह यस्ते कंठगतोंऽगज
द्विजमात्रेपि या हिंसा सा हिंसा कुशलाय न
निशम्य काश्यपिरितिप्रसूपादौप्रणम्य च
दूरादालोकयांचक्रे निषादान्मत्स्यजीविनः
अंधीकृत्य दिशोभागानब्धिरोधस्युपाविशत्
कांदिशीका निषादास्तु विविशुस्तत्र च स्वयम्
जज्वालेंगलसंस्पर्शो द्विजस्तत्कंठकंदलीम् 4.1.50.
प्रवेश्य कंठतालुस्थं तं विज्ञाय द्विजस्फुटम्
तमुद्गीर्णं नरं दृष्ट्वा पक्षिराट्समभाषत
स तदाहेति विप्रोहं पृष्टः सन्गरुडाग्रतः
तं प्रेष्य गरुडो दूरं भक्षयित्वाथ भूरिशः
तं दृष्ट्वा तिग्मतेजस्कं ज्वालाततदिगंतरम्
ते सन्नह्यंत युद्धाय सज्जीकृत बलायुधाः
तिर्यग्गतीरविर्नायं नायमग्निः सधूमवान्
न दैत्येषु प्रभेदृक्स्यान्नाकृतिर्दानवेष्वियम्
यावत्संभावयंतीति नीतिज्ञा अपि निर्जराः
निपेतुः पक्षवातेन सायुधाश्च सवाहनाः 4.1.50.
अथ तेषु प्रणष्टेषु बुद्ध्या विज्ञाय पक्षिराट्
शस्त्रास्त्रोद्यतपाणींस्तान्सुरानाधूय सर्वशः
मनःपवनवेगेन भ्रममाणं महारयम्
उपोपविश्य पक्षींद्रस्तस्य यंत्रस्य निर्भयः
स्प्रष्टुं न लभ्यते चैतद्वात्या न प्रभवेदिह
न बलं प्रभवेदत्र न किंचिदपि पौरुषम्
यदि मे शंकरे भक्तिर्निर्द्वंद्वातीव निश्चला
यद्यहं मातृभक्तोस्मि स्वामिनः शंकरादपि
आत्मार्थं नोद्यमश्चायं हृत्स्थो वेत्तीति विश्वगः
जरितौ पितरौ यस्य बालापत्यश्च यः पुमान् 4.1.50.