इत्यूर्जस्वलमाकर्ण्य वचः सूनोर्गरुत्मतः
अहं दास्यस्मि रे बाल कद्र्वाश्च क्रूरचेतसः
कदाचिन्मंदरं यामि कदाचिन्मलयाचलम्
यत्रयत्र नयेयुस्ते काद्रवेयाः सुदुर्मदाः
गरुड उवाच दासीत्वकारणं मातः किं ते जातं सुलक्षणे
विनतोवाच गरुडं पुरावृत्तमशेषतः
श्रुत्वेति गरुडः प्राह मातरं सत्वरं व्रज
यद्दुर्लभं हि भवतां यत्रात्यंतरुचिश्च वः
तथाकरोच्च विनता तेपि श्रुत्वा तदीरितम्
मातृशापविमोक्षाय यदि दास्यति नः सुधाम् 4.1.50.
इत्योंकृत्य समापृच्छ्य कद्रूं द्रुतगतिः खगी
नागांतकस्ततः प्राह मातरं चिंतयातुराम्
विनता प्राह तं पुत्रं संप्रहृष्टतनूरुहा
संति तत्रापि बहुशो निषादा मत्स्यघातिनः
परप्राणैर्निजप्राणान्ये पुष्णंतीह दुर्धियः
बहुहिंसाकृतां हिंसा भवेत्स्वर्गस्य साधनम्
निषादेष्वपि चेद्विप्रः कश्चिद्भवति पुत्रक
अभक्ष्यो यस्त्वया प्रोक्तस्तच्चिह्नं किं चनात्थ मे
यज्ञसूत्रं गले यस्य सोत्तरीयं सुनिर्मलम्
सपवित्रौ करौ यस्य यन्नीवी कुशगर्भिणी 4.1.50.
उच्चरेदृग्यजुःसाम्नामृचमेकामपीह यः
गरुड उवाच तस्यैतेष्वेकमप्येव न मन्ये लक्ष्मबोधकम्
लक्ष्मांतरं समाचक्ष्व द्विजबोधकरं प्रसूः
तच्छ्रुत्वा विनता प्राह यस्ते कंठगतोंऽगज
द्विजमात्रेपि या हिंसा सा हिंसा कुशलाय न
निशम्य काश्यपिरितिप्रसूपादौप्रणम्य च
दूरादालोकयांचक्रे निषादान्मत्स्यजीविनः
अंधीकृत्य दिशोभागानब्धिरोधस्युपाविशत्
कांदिशीका निषादास्तु विविशुस्तत्र च स्वयम्
जज्वालेंगलसंस्पर्शो द्विजस्तत्कंठकंदलीम् 4.1.50.