तिग्मरश्मिप्रभावेण व्याकुलीभूतमानसा
उष्णगोरुष्णगोभिर्मे ताप्यते नितरां तनुः
स्वरूपेण पतंगी त्वं पतंगोसौ सहस्रगुः
वियत्सरसि हंसोयं भवती हंसगामिनी
खगीमुद्गीयमानां खे पुनरूचे बिलेशया
विनते विनतां मां त्वं किं नावसि पतत्त्रिणी
यावज्जीवमहं भूयां त्वत्पादोदकपायिनी
मूर्च्छां गतवती पक्षपुटौ धृत्वा बिडोरगी
खखोल्केति यदुक्ता गीः कद्र्वा संभ्रातचेतसा
मनागतिग्मतां प्राप्ते खे प्रयाति विवस्वति 4.1.50.
उक्ता विनतयैवैषा तापोपहतलोचना
कद्रु त्वया जितं भद्रे यत उच्चैःश्रवा हयः
विधिर्बलीयान्भुजगि चित्रं जयपराजये
विनताविनताधारा वदंतीति यथागतम्
कदाचिद्विनतादर्शि सुपर्णनाश्रुलोचना
सुपर्ण उवाच प्रातःप्रातरहो मातः क्व यासि त्वं दिनेदिने
कुतो निःश्वसिसि प्रोच्चैरश्रुपूर्ण विलोचना
ब्रूहि मातर्झटित्यद्य कुतो दूनासि पत्त्रिणि
अश्रुनिर्माणकरणे कारणं किं तपस्विनि
धिक्तांश्च पुत्रान्यन्माता तेषु जीवत्सु दुःखभाक् 4.1.50.
इत्यूर्जस्वलमाकर्ण्य वचः सूनोर्गरुत्मतः
अहं दास्यस्मि रे बाल कद्र्वाश्च क्रूरचेतसः
कदाचिन्मंदरं यामि कदाचिन्मलयाचलम्
यत्रयत्र नयेयुस्ते काद्रवेयाः सुदुर्मदाः
गरुड उवाच दासीत्वकारणं मातः किं ते जातं सुलक्षणे
विनतोवाच गरुडं पुरावृत्तमशेषतः
श्रुत्वेति गरुडः प्राह मातरं सत्वरं व्रज
यद्दुर्लभं हि भवतां यत्रात्यंतरुचिश्च वः
तथाकरोच्च विनता तेपि श्रुत्वा तदीरितम्
मातृशापविमोक्षाय यदि दास्यति नः सुधाम् 4.1.50.