स चकार तथा शीघ्रं ततो धूमो व्यजायत
ततश्च व्याकुलाः सर्वे पन्नगाः समुपाद्रवन् उत्तंकाय ततो दत्त्वा प्रणिपत्य ययुर्गृहम्
यस्त्वयाऽऽराधितः पूर्वमुपाध्यायनिदेशतः
ज्ञात्वा त्वां दुःखितं प्राप्तमिह प्राप्तः कृपापरः
नयामि तत्र यत्रास्ते गुरुः सर्वगुणालयः
तत्क्षणात्समनुप्राप्तो गौतमस्य निवेशनम् 7.3.2.
स्नाता चाभ्येत्य भर्तारं साध्वी वाक्यमुवाच ह
शिथिलो गुरुकृत्येषु स यदालक्षितो मया
प्रसन्नवदनो हृष्टः कुण्डलाभ्यां समन्वितः
सा दृष्ट्वा तत्क्षणात्साध्वी कर्णाभ्यां संन्यवेशयत्
यथा मे चिंत्यते नित्यं धेन्वर्थं श्वभ्रपूरणे
तस्मात्त्वं पूरय क्षिप्रं नान्यः शक्तोऽत्र कर्मणि
चिन्तयामास तत्कार्यं विवरस्य प्रपूरणे
चिरं विचार्य तमृषिमिदमाह नगोत्तमः
पक्षच्छेदस्तु शक्रेण सर्वेषां च पुरा कृतः
वसिष्ठ उवाच अस्त्युपायो नगानां तु तत्र नेतुं महानग
तस्यार्बुद इति ख्पातो वयस्यः परमं प्रियः
स वा ऊर्ध्वगतिः क्षिप्रं क्षणान्नेष्यत्यसंशयः
आदेशो दीयतामस्य दुःखं कर्तुं च नार्हसि
दुःखेन महताऽऽविष्टश्चिंतयामास भूधरः
मैनाकस्तनयोऽस्माकं प्रविष्टः सागरे भयात् किं कृत्यमधुनाऽस्माकं कथं श्रेयो भविष्यति
इतः शापभयं तीव्रमितो दुःखं च पुत्रजम् 7.3.3.
स एवं निश्चयं कृत्वा नंदिवर्धनमुक्तवान्
तत्रास्ति विवरो रौद्रस्तं प्रपूरय सत्वरम्
पालाशैः खादिरैराढ्यो धवैः शाल्मलिभिस्तथा
सुनिष्ठुरैर्नृपशुभिर्भिल्लैश्च विविधैरपि नार्होऽहं पर्वतश्रेष्ठ तत्र गंतुं कथंचन
अथोवाच वसिष्ठस्तं संत्रस्तं नंदिवर्द्धनम्
तव मूर्ध्नि सदा वासो मम तत्र भविष्यति
वृक्षाश्च विविधाकाराः पत्रपुष्पफलान्विताः
अहमेवानयिष्यामि तवार्थे च महेश्वरम्