मृष्टं तिष्ठतु तद्दूरं विषादप्यधिकं कटु
वयं न यामो यद्भाव्यं तदस्माकं भवत्विह
अकर्णाः कूरहृदयाः पितरौ व्रीडयंति ते
पित्रोर्गिरं निराकृत्य ये तिष्ठेयुः सुदुर्मदाः
तेषां वचनमाकर्ण्य नयाम इति सोरगी
तार्क्ष्यस्य भक्ष्या भवत यूयं मद्वाक्यलंघनात्
इति शापानलाद्भीतैः कैश्चित्पातालमाश्रितम्
ते पुच्छमौच्चैःश्रवसमधिगम्य महाधियः
तत्क्ष्वेडानल धूमौघैः फूत्कारभरनिःसृतैः
विनतापृष्ठमारुह्य कद्रूः स्नेहवशात्ततः 4.1.50.
तिग्मरश्मिप्रभावेण व्याकुलीभूतमानसा
उष्णगोरुष्णगोभिर्मे ताप्यते नितरां तनुः
स्वरूपेण पतंगी त्वं पतंगोसौ सहस्रगुः
वियत्सरसि हंसोयं भवती हंसगामिनी
खगीमुद्गीयमानां खे पुनरूचे बिलेशया
विनते विनतां मां त्वं किं नावसि पतत्त्रिणी
यावज्जीवमहं भूयां त्वत्पादोदकपायिनी
मूर्च्छां गतवती पक्षपुटौ धृत्वा बिडोरगी
खखोल्केति यदुक्ता गीः कद्र्वा संभ्रातचेतसा
मनागतिग्मतां प्राप्ते खे प्रयाति विवस्वति 4.1.50.
उक्ता विनतयैवैषा तापोपहतलोचना
कद्रु त्वया जितं भद्रे यत उच्चैःश्रवा हयः
विधिर्बलीयान्भुजगि चित्रं जयपराजये
विनताविनताधारा वदंतीति यथागतम्
कदाचिद्विनतादर्शि सुपर्णनाश्रुलोचना
सुपर्ण उवाच प्रातःप्रातरहो मातः क्व यासि त्वं दिनेदिने
कुतो निःश्वसिसि प्रोच्चैरश्रुपूर्ण विलोचना
ब्रूहि मातर्झटित्यद्य कुतो दूनासि पत्त्रिणि
अश्रुनिर्माणकरणे कारणं किं तपस्विनि
धिक्तांश्च पुत्रान्यन्माता तेषु जीवत्सु दुःखभाक् 4.1.50.