न वै संतानविच्छित्तिं भोगोच्छित्तिं न जातुचित्
पापानि विलयं यांति पुण्यराशिश्च लभ्यते
एतद्व्रतस्य करणात्कुरूपत्वं न जातुचित्
कुमारोपि व्रतं कृत्वा विंदति स्त्रियमुत्तमाम् 4.1.49.
नाप्नुयुर्जातुचित्तानि मंगलाव्रततुल्यताम्
सर्वविघ्नप्रशांत्यर्थं सदा काशीनिवासिभिः
मयूखा एव खे दृष्टा न च दृष्टं कलेवरम्
त्वदर्चनान्नृणां कश्चिन्न व्याधिः प्रभविष्यति
इत्थं मयूखादित्यस्य शिवो दत्त्वा बहून्वरान्
श्रुत्वाख्यानमिदं पुण्यं मयूखादित्यसंश्रयम्
कलशोद्भव ते प्रीत्या सर्वे सर्वाघनाशनाः
खखोल्को नाम भगवानादित्य परिकीर्तितः
यथा खखोल्क इत्याख्या तस्यादित्यस्य तच्छृणु
कश्यपस्य च ते पत्न्यौ मारीचेः प्राक्प्रजापतेः
अखंडिता गतिस्तेस्ति यतो गगनमंडले
योसावुच्चैःश्रवा वाजी श्रूयते सवितूरथे
पणं च कुरु कल्याणि तुभ्यं यो रोचतेनघे
त्वज्जये का च मे प्रीतिर्मज्जये किं नु ते सुखम्
ज्ञात्वा पणो न कर्तव्यो मिथः स्नेहमभीप्सता
कद्रूरुवाच खेलस्य व्यवहारोयं पणे यत्किंचिदुच्यते ।। 4.1.50.
अथ तां विनतामाह कद्रूः कुटिलमानसा
तस्यास्तु सा भवेद्दासी पराजीयेत या यया
इत्यन्योन्यं पणीकृत्य सर्पिण्यपि पतत्त्रिणी
कदागंतव्यमिति च चक्राते ते गमावधिम्
विनतायां गतायां तु कद्रूराहूय चांगजान्
तुरंगमुच्चैःश्रवसं प्रोद्भूतं क्षीरनीरधेः
कार्यकारणरूपस्य सादृश्यमधिगच्छति
तस्य वालधिमध्यास्य कृष्णकुंतलतां गताः
इति श्रुत्वा वचो मातुः काद्रवेयाः परस्परम्
प्राप्ताः प्रहृष्टा मृष्टान्नं दास्यत्यद्य प्रसूरिति ।। 4.1.50.