त्वया प्रतिष्ठितं लिंगं गभस्तीश्वरसंज्ञितम्
त्वया गभस्तिमालाभिश्चांपेयांबुजकांतिभिः
गभस्तीश्वर इत्याख्यां ततो लिंगमवाप्स्यति
न जातु जायते मातुर्जठरे धूतकल्मषः 4.1.49.
चैत्रशुक्लतृतीयायामुपोषणपरायणः
रात्रौ जागरणं कृत्वा गीतनृत्यकथादिभिः
संभोज्यपरमान्नाद्यैर्दत्त्वान्येभ्योपि दक्षिणाम्
अष्टोत्तरशताभिश्च तिलाज्याहुतिभिः प्रगे
श्रद्धया समलंकृत्य भूषणैर्द्विजदंपती
इति मंत्रं समुच्चार्य प्रातः कृत्वाथ पारणम्
न वै संतानविच्छित्तिं भोगोच्छित्तिं न जातुचित्
पापानि विलयं यांति पुण्यराशिश्च लभ्यते
एतद्व्रतस्य करणात्कुरूपत्वं न जातुचित्
कुमारोपि व्रतं कृत्वा विंदति स्त्रियमुत्तमाम् 4.1.49.
नाप्नुयुर्जातुचित्तानि मंगलाव्रततुल्यताम्
सर्वविघ्नप्रशांत्यर्थं सदा काशीनिवासिभिः
मयूखा एव खे दृष्टा न च दृष्टं कलेवरम्
त्वदर्चनान्नृणां कश्चिन्न व्याधिः प्रभविष्यति
इत्थं मयूखादित्यस्य शिवो दत्त्वा बहून्वरान्
श्रुत्वाख्यानमिदं पुण्यं मयूखादित्यसंश्रयम्
कलशोद्भव ते प्रीत्या सर्वे सर्वाघनाशनाः
खखोल्को नाम भगवानादित्य परिकीर्तितः
यथा खखोल्क इत्याख्या तस्यादित्यस्य तच्छृणु
कश्यपस्य च ते पत्न्यौ मारीचेः प्राक्प्रजापतेः
अखंडिता गतिस्तेस्ति यतो गगनमंडले
योसावुच्चैःश्रवा वाजी श्रूयते सवितूरथे
पणं च कुरु कल्याणि तुभ्यं यो रोचतेनघे
त्वज्जये का च मे प्रीतिर्मज्जये किं नु ते सुखम्
ज्ञात्वा पणो न कर्तव्यो मिथः स्नेहमभीप्सता
कद्रूरुवाच खेलस्य व्यवहारोयं पणे यत्किंचिदुच्यते ।। 4.1.50.