अनेन मां परिष्टुत्य नरो मद्भक्तिमाप्स्यति
अनेन मंगलागौरीं स्तुत्वा मंगलमाप्स्यति
एतत्स्तोत्रवरं पुण्यं सर्वपातकनाशनम्
त्रिसंध्यं परिशुद्धात्मा काशीं प्राप्स्यति दुर्लभाम् 4.1.49.
ध्रुवदैनंदिनं पापं क्षालितं नात्र संशयः
त्रिकालं योजयेन्नित्यमेतत्स्तोत्रद्वयंशुभम्
एतत्स्तोत्रद्वयं दद्यात्काश्यां नैःश्रेयसीं श्रियम्
एतत्स्तोत्रद्वयं जप्यं त्यक्त्वा स्तोत्राण्यनेकशः
तदावयोःस्तवादस्मान्निष्प्रपंचो जनो भवेत्
अंते निर्वाणमाप्नोति जपन्स्तोत्रमिदं नरः
त्वया प्रतिष्ठितं लिंगं गभस्तीश्वरसंज्ञितम्
त्वया गभस्तिमालाभिश्चांपेयांबुजकांतिभिः
गभस्तीश्वर इत्याख्यां ततो लिंगमवाप्स्यति
न जातु जायते मातुर्जठरे धूतकल्मषः 4.1.49.
चैत्रशुक्लतृतीयायामुपोषणपरायणः
रात्रौ जागरणं कृत्वा गीतनृत्यकथादिभिः
संभोज्यपरमान्नाद्यैर्दत्त्वान्येभ्योपि दक्षिणाम्
अष्टोत्तरशताभिश्च तिलाज्याहुतिभिः प्रगे
श्रद्धया समलंकृत्य भूषणैर्द्विजदंपती
इति मंत्रं समुच्चार्य प्रातः कृत्वाथ पारणम्
न वै संतानविच्छित्तिं भोगोच्छित्तिं न जातुचित्
पापानि विलयं यांति पुण्यराशिश्च लभ्यते
एतद्व्रतस्य करणात्कुरूपत्वं न जातुचित्
कुमारोपि व्रतं कृत्वा विंदति स्त्रियमुत्तमाम् 4.1.49.
नाप्नुयुर्जातुचित्तानि मंगलाव्रततुल्यताम्
सर्वविघ्नप्रशांत्यर्थं सदा काशीनिवासिभिः
मयूखा एव खे दृष्टा न च दृष्टं कलेवरम्
त्वदर्चनान्नृणां कश्चिन्न व्याधिः प्रभविष्यति
इत्थं मयूखादित्यस्य शिवो दत्त्वा बहून्वरान्
श्रुत्वाख्यानमिदं पुण्यं मयूखादित्यसंश्रयम्