उदितेऽत्रोदिमो नित्यमस्तं यात्यस्तमाप्नुमः
इति व्याकुलितं विश्वं पश्यन्विश्वेश्वरः स्वयम्
मयूखमालिनं शंभुरालोक्याति सुनिश्चलम्
उवाच च प्रसन्नात्मा श्रीकंठः प्रणतार्तिहृत् 4.1.49.
निरुद्धेंद्रियवृत्तित्वाद्ब्रध्नो ध्यानसमाधिना
काष्ठीभूतं तु तं ज्ञात्वा शिवः पस्पर्श पाणिना
तत उन्मीलयांचक्रे लोचने विश्वलोचनः
परिव्यपेतसंतापस्तपनः स्पर्शनाद्विभोः
मित्रो नेत्रातिथीकृत्य त्र्यक्षं प्रत्यक्षमग्रतः
भूतनाथ भवभीतिहारक त्वां नतोस्मि नतवांछितप्रद
चंद्रचूडमृड धूर्जटे हर त्र्यक्ष दक्ष शततंतुशातन
नीललोहित समीहितार्थ दहे(?)द्व्येकलोचन विरूपलोचन
वामदेवशितिकंठशूलभृच्चंद्रशेखर फणींद्रभूषण
त्र्यंबक त्रिपुरसूदनेश्वर त्राणकृत्त्रिनयनत्रयीमय 4.1.49.
शर्वरीरहितशर्वसर्वगस्वर्गमार्गसुखदापवर्गद
शंकरोग्रगिरिजापते पते विश्वनाथविधिविष्णु संस्तुत
विश्वरूपपररूप वर्जितब्रह्मजिह्मरहितामृतप्रद
इत्थं परीत्य मार्तंडो मृडं देवं मृडानिकाम्
रविरुवाच देवि त्वदीयचरणांबुजरेणुगौरीं भालस्थलीं वहति यः प्रणतिप्रवीणः
श्रीमंगले सकलमंगलजन्मभूमे श्रीमंगले सकलकल्मषतूलवह्ने
विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री त्वं पालयित्र्यसि तथा प्रलयेपिहंत्री
मातर्भवानि भवती भवतीव्रदुःखसंभारहारिणि शरण्यमिहास्ति नान्या
ये त्वा स्मरंति सततं सहजप्रकाशां काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम्
मातस्तवांघ्रियुगलं विमलं हृदिस्थं यस्यास्ति तस्य भुवनं सकलं करस्थम् 4.1.49.
त्वं देवि वेदजननी प्रणवस्वरूपा गायत्र्यसि त्वमसि वै द्विजकामधेनुः
गौरि त्वमेव शशिमौलिनि वेधसि त्वं सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः
स्तुत्वेति तां स्मरहरार्धशरीरशोभां श्रीमंगलाष्टक महास्तवनेन भानुः
मित्रमन्नेत्रगो नित्यं प्रपश्ये तच्चराचरम्
मम मूर्तिर्भवान्सूर्य सर्वज्ञो भव सर्वगः
सर्वेषां सर्वदुःखानि भक्तानां त्वं निराकुरु